________________
संगीतरत्नाकर:
[पदार्थ
ततः प्रवन्धाध्याये तु धातवो ऽङ्गानि जातयः ॥ ४१ ॥ प्रवन्धानां द्विधा मूड: शुद्धश्छायालगस्तथा । आलिक्रममवन्धाश्च सूडस्था आलिसंश्रयाः ॥ ४२ ॥ विप्रकीर्णास्ततश्छायालगड समाश्रिताः । गीतस्था गुणदोषाश्च वक्ष्यन्ते शार्ङ्गसूरिणा ।। ४३ ।। तालाध्याये पञ्चमे तु मार्गतालाः कलास्तथा । पाता मार्गाश्च चत्वारस्तथा मार्गकलाष्टकम् ॥ ४४ ॥ गुरुलघ्वादिमानं चैककलत्वादयो भिदाः । पादभागास्तथा मात्रास्ताले पातकलाविधिः ।। ४५ । ततः प्रकीर्णति । प्रकीर्णाः शास्त्रेषु तत्र तत्र विक्षिप्ताः पदार्था अत्रैकत्र समुच्चित्याधिक्रियन्त इति प्रकीर्णकः ॥ ३९ - ४०-॥
२०
(सु० ) तृतीयाध्यायवस्तुसंग्रहं कथयति - तत इति । तयोर्गायनीगायनयोः । शब्दभिदा : शब्दभेदा: खाहुलादयः । तद्गुणाः शारीरगुणाः । तद्दोषाः शारीरदोषाः । गमकः स्वरस्य कम्पः । स्थाया गीतस्यावयवाः || ३९-४०- ॥
(क०) चतुर्थे धातुप्रभृतीनि द्वादश वस्तूनि विस्तार्यन्त इत्याहततः प्रवन्धाध्याय इति । प्रबन्धानामेलादीनामध्याये ॥ ४१-४३ ॥
(सु० ) चतुर्थाध्यायवस्तुसंग्रहं कथयति - ततः प्रबन्धेति । धातवः प्रबन्धावयवा उद्ग्राहादयश्चत्वारः । अङ्गानि स्वरादीनि षट् । जातयो मेदिन्यादयः पञ्च । शुद्धः सूड एलादिः । छायालग: सूडो ध्रुवमण्ठादिः ॥ ४१-४३ ॥
(क०) पञ्चमे मार्गतालादय एकविंशतिरर्थाः प्रपञ्च्यन्त इत्याहतालाध्याय इति ॥ ४४--४७- ॥
--
Scanned by Gitarth Ganga Research Institute