________________
१९
-संग्रहः १]
प्रथमः स्वरगताध्यायः अथ रागविवेकाख्ये ऽध्याये वक्ष्यामहे क्रमात् । ग्रामरागांश्चोपरागारागान्भाषा विभाषिकाः ॥ ३७ ।। ततो ऽप्यन्तरभाषाश्च रागाङ्गाण्यखिलान्यपि । भापाऽङ्गाण्यप्युपाङ्गानि क्रियाङ्गाणि च तत्त्वतः ॥ ३८ ॥ ततः प्रकीर्णकाध्याये तृतीये कथयिष्यते । वाग्गेयकारो गान्धर्वः स्वरादिर्गायनस्तथा ॥ ३९ ॥ गायनी गुणदोषाश्च तयोः शब्दभिदास्तथा । गुणदोषाश्च शब्दस्य शारीरं तद्गुणास्तथा ॥ ४० ॥ तदोपा गमकः स्थाया आलप्तिर्वृन्दलक्षणम् ।
(सु०) स्वरगताध्यायवस्तुसंग्रहं कथयति-तत्रेति । शरीरं नादोत्पत्याश्रयः । नादसंभूतिर्नादोत्पत्तिप्रकार: । स्थानानि हृदयादीनि ॥ त्रयोदशविधं जातिलक्ष्म-ग्रहः, अंशः, तारः, मन्द्रः, न्यासः, अपन्यासः, संन्यासः, विन्यासः, बहुत्वम् , अल्पता, अन्तरमार्गः, षाडवम् , औडुवितं चेति । अन्यत्सुगमम् ॥ ३१-३६ ॥
(क०) ततो द्वितीये ऽध्याये ग्रामरागादयो दशविधरागाः प्रतिपाद्यन्त इत्याह-अथेति । रागविवेकाख्य इति । रागाणां शुद्धकैशिकमध्यमादीनां विवेको विवेचनमसंकीर्णतया स्वरूपनिरूपणमस्मिन्निति स तथोक्तः ॥ ३७, ३८ ॥
(सु०) द्वितीयाध्यायवस्तुसंग्रहं कथयति-अथ रागेति । अखिलान्यपीति । प्राक्प्रसिद्धान्यधुना प्रसिद्धानि चेत्यर्थः ॥ ३७, ३८ ॥ ।
(क०) तृतीये वाग्गेयकारादयो द्वादश पदार्था लक्ष्यन्त इत्याह। यकस्तथा.
Scanned by Gitarth Ganga Research Institute