________________
१८
संगीतरत्नाकर:
छन्दांसि विनियोगाश्च स्वराणां श्रुतिजातयः । ग्रामाश्च मूर्च्छनास्तानाः शुद्धाः 'कूटाश्च संख्यया ॥ ३३ ॥ प्रस्तारः खण्डमेरुश्च नष्टोद्दिष्टप्रबोधकः ।
[पदार्थ
स्वरसाधारणं जातिसाधारणमतः परम् ।। ३४ ।। काकल्यन्तरयोः सम्यक्प्रयोगो वर्णलक्षणम् । त्रिषष्टिरप्यलंकारास्त्रयोदशविधं ततः ।। ३५ ।। जातिलक्ष्म ग्रहांशादि कपालानि च कम्बलम् | नानाविधा गीतयश्चेत्येतावान्वस्तुसंग्रहः || ३६ ||
स्वरगताध्याय इति । स्वराननुगताः स्वरगताः श्रुतिग्राममूर्च्छनातानवर्णालंकारजातिगीत्यादयो विवेया:, तेषामध्यायें । अधीतिरेवाध्याय इति भावे घञन्तः । अधीयते ऽनेनाभिप्रेतो ऽर्थो ऽस्मिन्वेत्यध्याय इति ' अकर्तरि च ' इति करणाधिकरणयोर्वा । यद्वा, अधीत्यधिकारे ; अयनमाय: ; आयो ऽर्थावगतिः ; अर्थावगतिमधिकृत्य प्रवृत्तो ग्रन्थो Sध्यायः । अथ वा ईयते गम्यत इत्यायो ऽर्थः, तमधिकृत्य प्रवृत्तो ग्रन्थो ऽध्यायः । ननु, पूर्वत्र गीतस्य प्रतिपादने प्राथम्यं प्रतिज्ञातम्, इदान प्रथमे स्वगताध्याय इत्यधिकृत्य शरीरादिप्रतिपादनस्य प्राथम्यमुच्यते, अतः प्रतिज्ञाप्रतिपादनयोर्भिन्नविषयत्वाद्वैयधिकरण्यमिति चेन्नैष दोषः स्वरग ते शरीरादेः परंपरया गीतं प्रत्युपकारकत्वात्स्वरगतप्रतिपादनं प्रकारान्तरेण गीतप्रतिपादनमेवेत्यविरोधात् । तत्र शरीरादित्रिंशत्पदार्थानां मध्ये केषांचित्कार्यकारणभावादिसंगतिवशादुद्देशक्रमो विवक्षितः, केषांचित्तदभावेनाविवक्षितः । उत्तरत्रायमर्थः प्रकाश्यते ॥ ३१–३६ ॥
;
1 कूटा: स्वसंख्यया.
Scanned by Gitarth Ganga Research Institute