SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ -संग्रहः १] प्रथमः स्वरगताध्यायः तत्र स्वरगताध्याये प्रथमे प्रतिपाद्यते । शरीरं नादसंभूतिः स्थानानि श्रुतयस्तथा ॥ ३१ ॥ ततः शुद्धाः स्वराः सप्त विकृता द्वादशाप्यमी । कुलानि जातयो वर्णा द्वीपान्या च दैवतम् ॥ ३२ ॥ तस्येति । गीतस्य धर्मसाधनत्वं तावदश्वमेधप्रकरणे ‘ब्राह्मणौ वीणागाथिनौ गायतः . . . ब्राह्मणो ऽन्यो गायेत्' इति श्रुतेर्देवार्चनादिपु गीतादेस्तदङ्गत्वेन परिग्रहाच्च सिद्धम् । अर्थसाधनत्वं लोकतो दृष्टम् । कामसाधनत्वं तु ' तस्माद्गायन्तं स्त्रियः कामयन्ते' इति वेदतो लोकतश्च सिद्धम् । मोक्षसाधनत्वं च 'वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्ग स गच्छति ॥' इति याज्ञवल्क्यस्मृतेः, प्रकरणाख्यमद्रकादिगीतेषु · शिवस्तुतौ प्रयोज्यानि मोक्षाय विदधे विधिः' इत्युक्तत्वाच्च ॥ ३० ॥ (सु०) धर्मार्थेति । परमेश्वराराधनार्थ गीयमानं गीतं धर्महेतुः, यथोक्तलक्षणानां जात्यादीनां सम्यक्प्रयोगस्य 'अपि ब्रह्महणं पापाज्जातयः प्रपुनन्त्यमू:' इत्यादिना धर्महेतुत्वस्य वक्ष्यमाणत्वात् । गीतोपजीविनामर्थसाधनम् । शृङ्गारस्योद्दीपनविभावरूपत्वात्कामसाधनम् । मद्रकादीनां मोक्षसाधनत्वं च वक्ष्यते ॥ ३० ॥ ___ (क०) सप्ताध्याय्यां रत्नाकरे प्रत्यध्यायं वस्तूनि संजिघृक्षन्नादौ स्वरगताध्याये शरीरादीन्पदार्थान्संगृह्य प्रतिपादयितुं प्रतिजानीते-तत्र स्वरगताध्याय इत्यादिना । एतावान्वस्तुसंग्रहः प्रतिपाद्यत इति योजना । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy