________________
१६
[पदार्थ
संगीतरत्नाकरः गीतेन प्रीयते देवः सर्वज्ञः पार्वतीपतिः । गोपीपतिरनन्तो ऽपि वंशध्वनिवशं गतः ॥ २६ ॥ सामगीतिरतो ब्रह्मा वीणाऽऽसक्ता सरस्वती । किमन्ये यक्षगन्धर्वदेवदानवमानवाः ॥ २७ ॥ अज्ञातविषयास्वादो बालः पर्यङ्किकागतः । रुदनगीतामृतं पीत्वा होत्कर्ष प्रपद्यते ।। २८ ।। वनेचरस्तृणाहारश्चित्रं मृगशिशुः पशुः । लुब्धो लुब्धकसंगीते गीते यच्छति जीवितम् ॥ २९ ।। तस्य गीतस्य माहाऽऽत्म्यं के प्रशंसितुमीशते । धर्मार्थकाममोक्षाणामिदमेवैकसाधनम् ॥ ३० ॥
(सु०) गीतस्य समूलत्वमाह-सामवेदादिति । संजग्राह संग्रहेणोक्तवान् ॥ २५ ॥
(क०) एतच्च न केवलं वैदिकमित्युपादेयम् , किं त्वासर्वज्ञपार्वतीपत्याधीविकलपशु विगलितवेद्यान्तरतया ऽऽनन्दाविर्भावकत्वेन हृद्यत्वाच्चेत्याह-गीतेनेत्यादिना ॥ २६-२९ ॥
(सु०) गीतप्रयोजनमाह-गीतेनेति ॥ गीतं स्तौति-अज्ञातेति । लुब्धो ऽनुरक्तः । लुब्धको व्याधः ॥ २६-२९ ॥
(क०) प्रतिनियतसाधनानामपि धर्मार्थकाममोक्षाणामिदमेकमेव रमणीयं साधनं यतस्तस्मादस्य माहाऽऽत्म्यं वर्णयितुं न केचन शक्ता इत्याह--
। ०वशंवदः 'किनराः
Scanned by Gitarth Ganga Research Institute