________________
-संग्रहः १]
प्रथमः स्वरगताध्यायः गीतं च वादनं नृत्तं तद्देशीत्यभिधीयते । नृत्तं वाद्यानुगं प्रोक्तं वायं गीतानुवर्ति च ।। २४ ।। अतो गीतं प्रधानत्वादत्रादावभिधीयते ।
सामवेदादिदं गीतं संजग्राह पितामहः ॥ २५ ॥ हम्' इति प्रतिज्ञाय चतुर्पु वेदेप्वन्विष्य कृतत्वात् । मार्गित इति ‘मार्ग अन्वेषणे' इत्यस्माद्धातोः कर्मणि निष्ठायां रूपम् । मार्ग इति तु तस्मादेव धातोः कर्मणि घञन्तम् । देशीति. देशशब्देन तत्रत्या जना लक्ष्यन्ते. तैर्यथेच्छं क्रियमाणायां गीतादिक्रियायामाचार्यकृता संज्ञा । संगीतपदाभिधेयत्वेन नाट्यं प्रत्यङ्गत्वेन च त्रयाणामप्यविशेषेण प्रतिपादने प्राथम्यप्रसक्ती, तत्र · गीतवाद्यप्रमाणेन कुर्याच्चाङ्गविचेष्टितम्' इति ‘गीतं चतुर्विधाद्वाद्याज्जायते चोपरज्यते, गीयते च' इति गीतस्य स्वेतरद्वयापेक्षितत्वेन प्राधान्यं प्रसाध्य प्राथम्यं प्रतिजानीते---- नृत्तं वाद्यानुगमिति ॥ २२-२४- ॥
(सु०) तस्य संगीतस्य मार्गतादेशीत्वाभ्यां वैविध्यमुक्त्वा मार्गस्य लक्षणं कथयति-यो मार्गित इति । मार्गितो ऽन्वेषितो दृष्टः । अनेन मार्गशब्दव्युत्पत्तिरपि सूचिता। देशीलक्षणं कथयति—देश इति । गीतस्य पूर्वनिरूपणे कारणमाह--नृत्तमिति ॥ २२-२४-॥
(क०) गीतस्य सामवेदसंग्रहरूपत्वेन वैदिकत्वादुपादेयत्वं दर्शयति--- सामवेदादिदमिति । तत्संग्रहरूपत्वं च गीतस्यापि सप्तस्वरात्मकत्वात् । सामनि हि क्रुष्टप्रथम द्वितीयतृतीयचतुर्थमन्द्रातिस्वार्याख्याः सप्त स्वराः ; इह तु त एव यथायोगं षड्जादिव्यपदेशभाज इति । ब्रह्मणा ऽपि वेदादुद्धत्य संग्रहणे सार्ववर्णिकत्वं प्रयोजनमिति भावः ॥ २५ ॥
Scanned by Gitarth Ganga Research Institute