________________
संगीतरत्नाकरः
[पदार्थमार्गो देशीति तद् द्वेधा तत्र मार्गः स उच्यते । यो मार्गितो विरिञ्च्यायैः' प्रयुक्तो भरतादिभिः ।। २२ ।। देवस्य पुरतः शंभोनियताभ्युदयप्रदः । देशे देशे जनानां यदुच्या हृदयरञ्जकम् ।। २३ ।।
वाद्यनृत्तयोरित्याशङ्कां परिजिहीर्घः संगीतशब्दार्थमाह-गीतं वाद्यमिति । यदि गीतमेव प्रतिपाद्येत तदा केवलं गीतशब्दं प्रयुञ्जीत न तु समुपसर्गयुक्तम् । ननु गीतस्यैव सम्यक्त्वद्योतनार्थ समुपसर्ग इति चेन्न, 'रञ्जकः स्वरसंदों गीतमित्यभिधीयते' इति विशिष्टवचनादनुपसृष्टस्यैव तस्य गीतस्य सम्यक्त्वसिद्धेः । समित्युपसर्गस्तु गीतशब्देन सह प्रयुज्यमानो गीते स्वेनाधेयातिशयाभावाद्गीतस्यान्ययोगं द्योतयशव्दत्वसामान्येन वाद्यस्य तदुभयाभिव्यञ्जकत्वेन नृत्तस्य च गीतेन संबन्धं विशिनष्टि । तस्माद्यत्र संगीतशब्दस्य प्रयोगस्तत्र तौर्यत्रिकं विवक्षितमिति मन्तव्यम् । कचिद्गीतमात्रे संगीतशब्दप्रयोगस्त्ववयवे ऽवयव्युपचारात्खण्डपटे पटव्यवहारवत् ॥ -२१ ॥
(मु०) संगीतग्रन्थी विरच्यत इत्युक्तम् । तत्र किमिदं संगीतमित्यपेक्षायामाह - गीतमिति । नन्वेवं समुदितानां संगीतत्व एकैकस्यासंगीतत्वापत्तिः ; नैवम्, गीतवाद्यनृत्तान्यतमत्वस्य संगीतशब्दप्रवृत्तिनिमित्तत्वात् ॥ २१ ॥
(क०) तस्य संगीतस्य मार्गदेशीभेदेन द्वैविध्यं प्रतिज्ञाय तयोनिरुक्तिपूर्वकं लक्षणमाह--मार्गो देशीत्यादिना । मार्गितत्वान्मार्गः । मार्गितत्वं च विरिश्चयाद्यैर्ब्रह्मादिभिः · नाट्यसंज्ञमिदं वेदं सेतिहासं करोम्य
विरिचाथैः १. व्यङ्गयत्वेन.
Scanned by Gitarth Ganga Research Institute