________________
-संग्रहः १] प्रथम: स्वरगताध्यायः
आञ्जनेयो मातृगुप्तो रावणो नन्दिकेश्वरः। स्वातिगणो बिन्दुराजः क्षेत्रराजश्च राहलः ॥ १७ ।। रुद्रटो नान्यभूपालो भोजभूवल्लभस्तथा । परमर्दी च सोमेशो जगदेकमहीपतिः ।। १८ ।। व्याख्यातारो भारतीये लोल्लटोद्भटशकुकाः । भट्टाभिनवगुप्तश्च श्रीमत्कीर्तिधरः परः ।। १९ ।। अन्ये च बहवः पूर्वे ये संगीतविशारदाः । अगाधवोधमन्थेन तेषां मतपयोनिधिम् ।। २० ।। निर्मथ्य श्रीशाईदेवः सारोद्धारमिमं व्यधात् । गीतं वाद्यं तथा नृत्तं त्रयं संगीतमुच्यते ॥ २१ ॥
सदाशिवः शिवेत्यादिना सारोद्धारमिमं व्यधादित्यन्तेन । सारोद्धारो नवनीतं तमिममिति व्यस्तरूपणम् , सारस्योद्धारो यस्मिन्कर्मणीति क्रियाविशेषणं वा ॥ १५-२० ॥
(मु०) ननु सदाशिवभरतादिप्रणीतेषु संगीतप्रन्थेषु सत्सु 'किमनेनाफलनिर्माणक्लेशेनेत्यत आह-सदाशिव इति । एतेषां मतपयोनिधि निर्मथ्य सारोद्धारमिमं व्यधादकार्षीत् । अतश्च ते वितता दुर्ग्रहा बहवश्व ग्रन्या अचिरजीविभिर्मनुध्यैरालोडयितुमशक्या इत्यल्पप्रयासेनैव सकलसंगीतरहस्यावबोधसिद्धर्नास्य प्रयासस्य वैफल्यमिति, एतानि च शास्त्राण्यालोच्य कृतत्वेनास्य समूलत्वात्प्रेक्षावद्भिः प्रमाणत्वेनोपादेयो ऽयमित्यप्यनेन कथयति ॥ १५-२० ॥
(क०) ननु, 'आविष्करोति संगीतरत्नाकरमुदारधीः' इति प्रतिज्ञायां संगीतशब्देन लोकप्रसिद्धया गीतस्यैव ग्रन्थप्रतिपाद्यत्वं प्रतीयते न तु
1किमनेनाधुनिकनिर्मा
Scanned by Gitarth Ganga Research Institute