SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १२ संगीतरत्नाकर: सदाशिवः शिवा ब्रह्मा भरतः कश्यपो मुनिः । मतङ्गो याष्टिको दुर्गा शक्ति: शार्दूलकोहल ।। १५ ।। विशाखिलो दत्तिलश्व कम्बलो ऽश्वतरस्तथा । वायुर्विश्वावसु रम्भा ऽर्जुनो नारदतुम्बुरु || १६ || [पदार्थ " यज्वभिरिति । यज्वभिर्याज्ञिकैरलंकृतः । यस्मिन्वंश एवंविधाः समुत्पन्ना इत्यर्थः ॥ तस्मिन्वंशे समुत्पन्नं विशिष्टं मूलपुरुषं कथयति - तत्रेति । सूर्यसदृशो भास्कर नामा तेजसां निधिर्ब्रह्मवर्चसाश्रयः, पक्षे कान्त्याश्रयः, दक्षिणाऽऽयनं काश्मीर देशादक्षिणां दिशं प्रत्यागमनम् अथ वा दक्षिणाया देयद्रव्यस्यायनं पात्रप्रापणं चक्रे, दक्षिणानां प्रवीणानामाशां वाञ्छामलंकर्तुम् । सूर्यपक्षे दक्षिणाऽयनं प्रसिद्धमेव ॥ ग्रन्थस्य कर्ता स्वपितरं कथयति - तस्येति । भिल्लमं भिल्लमनामानं राजानम् । जैत्रे जैत्रनामनि नगरे || स्वस्वामिनं सिङ्घणभूपं वर्णयति -- एक इति । यस्य प्रतापानलो विश्वव्याप्यपि द्विषां हृदयान्येव दहतीति कारणे सत्यपि कार्यानुदयाद्विशेषोतिरलंकारः ॥ सिङ्घणदेव प्रसादप्रभावं कथयति - तं प्रसाद्येति । तं सिङ्ङ्घणं गुणग्रामेण गुणसमूहेन प्रसाद्य प्रसन्नं कृत्वा । गुणरागिणमिति साभिप्रायविशेषणत्वात्परिकरालंकारः । उपकारैरुपकार साधनैर्द्रव्यवस्त्रान्नादिभिः ॥ किं न ददौ ? सर्वमेव ददावित्यर्थः । एवं न किं जज्ञावित्यादिषु ॥ य एवंविधः सोढलनामा तस्मात्क्षीरसमुद्राच्छाङ्गदेवश्चन्द्र उत्पन्न इति संबन्ध: । उपर्युपरीति । उपरिशब्दस्याम्रेडितत्वात्सर्वानिति द्वितीया ॥ ग्रन्थे वैशिष्ट्यप्रतिपादनार्थमात्मानं वर्णयति - कृतेति ॥ स्ववैदुष्यं प्रकटयति- नानेति । सहवास: काश्मीरदेशे सरस्वत्यव - स्थानाच्छाङ्गदेवस्यापि काश्मीरदेश उत्पन्नत्वात् ॥ स इति । स शार्ङ्गदेवः संगीतरत्नाकरमाविष्करोति रचयतीति संबन्धः । निःश्रेयसाप्तये मोक्षप्राप्तये, मद्रकादीनां प्रकरणाख्यानां गीतानाम् 'शिवस्तुतौ प्रयोज्यानि मोक्षाय विदधे विधि:' इति मोक्षहेतुत्वस्य वक्ष्यमाणत्वात् ॥ २—१४॥ - ( क ० ) इह शास्त्रे प्रेक्षावत्प्रवृत्तये सदाशिवाद्यनेकप्रामाणिकपरिग्रहं दर्शयित्वा तन्मतसारसंग्रहत्वेन स्वकीयस्य ग्रन्थस्यातिशयितत्वं द्योतयति — Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy