SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ -संग्रहः १] प्रथमः स्वरगताध्यायः कृतगुरुपदसेव: प्रीणिताशेपदेवः कलितसकलशास्त्रः पूजिताशेषपात्रः । जगति विततकीर्त्तिर्मन्मथोदारमूर्तिः प्रचुरतरविवेकः शार्ङ्गदेवो ऽयमेकः ।। १० ।। नानास्थानेषु संभ्रान्ता परिश्रान्ता सरस्वती । सहवासप्रिया शश्वद्विश्राम्यति तदालये ।। ११ । स विनोदैकरसिको भाग्यवैदग्ध्यभाजनम् । धनदानेन विप्राणामार्ति संहृत्य शाश्वतीम् ।। १२ ।। जिज्ञासूनां च विद्याभिर्गदार्तानां रसायनैः । अधुना ऽखिललोकानां तापत्रयजिहीर्षया ॥ १३ ॥ शाश्वताय च धर्मा की निःश्रेयसाप्तये । आविष्करोति संगीतरत्नाकरमुदारधीः || १४ || (क०) अथ ग्रन्थकारः शार्ङ्गदेवः स्वदेशवंशवृत्तप्रशंसापूर्वकं ग्रन्थस्य प्रयोजनविषयौ निर्दिशति - अस्ति स्वस्तिगृहमित्यारभ्य संगीतरत्नाकरमुदारधीरित्यन्तेन ग्रन्थसंदर्भेण ॥ २ - १४ ॥ (सु० ) एवं मङ्गलाचरणं विधायाभिधेयं च सप्रयोजनमुक्त्वा ग्रन्थस्य कर्ता स्वयं ग्रन्थे वैशिष्ट्यप्रतिपादनाय स्ववंशं कथयति — अस्तीति । अस्तीति 1 वर्तमानप्रयोगेण वंशस्याकल्पावस्थायित्वं सूचयति । स्वस्तीत्यव्ययं कल्याणवाचकम्, कल्याणस्य गृहमाश्रयः । श्रीमान्य: काश्मीरदेशस्तस्मात्संभवो यस्य । वृषगणनाम्न ऋषेर्जातः, वृषगणगोत्रजात इत्यर्थः ॥ वंशस्य धार्मिकत्वं कथयति — ', 1 • मार्तीः संहृत्य शाश्वतीः • र्गदिनां च . निःश्रेयसाय च 1 ११ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy