________________
-संग्रहः १]
प्रथमः स्वरगताध्यायः इन्प्रत्ययः । मारुते ऽनुगतिना मारुतानुगतिनेति विग्रहः,' मनःपवनौ सहचारिणाविति योगिप्रसिद्धेः । श्रीहर्षेणाप्युक्तं नैषधचरिते
'त्वं हृद्गता भैमि बहिर्गता ऽपि प्राणायिता नासिकया ऽऽस्यगल्या ।
न चित्तमाक्रामति तत्र चित्रमेतन्मनो यद्भवदेकवृत्ति ॥' इति । यो ऽयमेवं विशिष्टः परमेश्वरः, तं मुदे हर्षाय वन्द इति संबन्धः । पक्षे, गीतं वन्दे । गीतमिति रञ्जकः स्वरसंदर्भ उच्यते, 'रञ्जकः स्वरसंदर्भो गीतमित्यभिधीयते' इति वक्ष्यमाणत्वात् । गीतस्य च मुख्यत्वेन गीतपदेनैव वाद्यनृत्ते अप्युपलक्ष्यास्मिन्प्रन्थे संगीतमभिधेयमित्यपि सूच्यते । अनभिधेयत्वे तस्य ग्रन्थादी स्तुत्यत्वेन नमस्कार्यत्वेन चाभिधानस्यासंगतत्वापात: | अथ वा नादतनुं वन्दे । नाद एव तनुः स्वरूपं यस्य स्वरसंदर्भस्य तं स्वरसंदर्भ वन्दे । कथंभूतम् ? उद्धरजगद्गीतम् , उडुरे जगति गीतं जात्येलादि यस्मात् । कस्मै ? मुदे आनन्दाय । पुनः कथंभूतम् ? शंकरम् , शं सुखं करोतीति । अनेन सुखं प्रयोजनम् , अभिधेयेन सह सुखस्य जन्यजनकभावः संबन्धो ऽपि दर्शितः । तं कम् ? यस्माद् ग्रामादीनामुत्पत्तिः । ग्रामा: स्वरसमूहाः षड्जग्रामो मध्यमग्रामो गांधारग्राम इति त्रयः तेषां विभागः पृथक्त्वम् , वर्णों गानक्रिया स्थाय्यारोह्यवरोहिसंचारिभेदेन चतुर्विधः 'गानक्रियोच्यते वर्णः' इति वक्ष्यमाणः तस्य रचना निष्पादनं सौन्दर्य वा, अलंकारा विशिष्टवर्णसंदर्भा मन्द्राद्यादयः, जातयो ऽष्टादश षाड्ज्यादयः सप्त शुद्धा एकादश विकृता: षड्जकैशिक्यादयः, तासां क्रम: परिपाटी यस्माज्जायत इति संबन्धः । यो ऽयं स्वयं राजते, अन्यानपेक्षतया ऽऽनन्दयितृत्वात् । स्वरपदस्य निरुक्तिरप्यनेन कथ्यते। कथंभूतः ? सूरीणां संगीततत्त्वं जानतामनुरञ्जको ऽनुरागोत्पादकः । क राजते ? हृत्पङ्कजे । हृत्पङ्कज इत्युपलक्षणम् । तेन स्वरोत्पत्तिस्थानानि हृत्कण्ठमूर्धानो ग्राह्याः । केन ? चित्तेन, चित्तस्यापि नादोत्पत्तौ कारणत्वस्य 'आत्मा विवक्षमाणो ऽयं मनः प्रेरयते' इत्यादिना वक्ष्यमाणत्वात् । ब्रह्मप्रन्यिजेति विशेषणं
1.गतिनेत्यन्वयः ५ .तत्वापत्तेः
Scanned by Gitarth Ganga Research Institute