SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [पदार्थननु परमकारुणिका निरपेक्षा अप्यन्यानानन्दयितुं यतन्ते ; तन्निरासार्थमाह-. उद्धरेति । उद्रेण जगता गीतं स्तुतम् । 'गै शब्दे' इत्यस्य शब्दार्थत्वे ऽपीश्वरविषयत्वात्स्तुत्यर्थो लभ्यते । किंविशिष्टं तमीश्वरम् ? नादतनुम् , नादस्तनुः स्वरूपं यस्य तम् , शब्दब्रह्मेत्युक्तत्वात् । यद्वा नादेन कार्येण कारणमाकाशमुपलक्षयेत् ; तेनाकाशस्वरूपमित्यर्थः; आकाशो ऽप्येका मूर्तिः परमेश्वरम्य ; एतदुपादानं च परमेश्वरस्यापि शब्दकारणत्वात्तदनुग्रहस्य ग्रन्थरूपशब्दविस्तरसमाप्तिसाधनत्वाभिव्यक्त्यर्थम् । तमिति यच्छब्दसंबन्धार्थम् , 'यत्तदोनित्यः संबन्धः' इति वचनात् । तं कम् ? यस्माद् ग्रामेति । ग्रामशब्देन भूरादिलोका:, अथ वा नगरशाखानगरपामघोषादयो ग्राह्याः । विभज्यत इति विभागो द्रव्यं धान्यादि । अथ वा प्रामाणां विभागः पृथक्त्वेनावस्थापनम् , 'एष सेतुरेष विधरण एषां लोकानामसंभेदाय' इति श्रुतेः । वर्णा ब्राह्मणादयः, रचना द्विपदचतुष्पदषट्पदत्वादिः, अलंकाराः कटकमकुटादयः, जातयो गोत्वाश्वत्वादयः, क्रमो बाल्यादिः सृष्टिसंहारौ वा ऋतुक्रमो वा यस्मात्समुत्पन्नः । 'जनिकर्तुः प्रकृतिः' इत्युक्तत्वात्पञ्चम्यैव समुत्पन्न इति लभ्यते । अत्र च प्रामाश्च विभागश्च वर्णाश्च रचना चालंकाराश्च जातयश्चेति द्वंद्वं कृत्वा ताभिः सहितः क्रम इति क्रमपदेन सह तत्पुरुषः । अथवा, ग्रामादिजात्यन्तानां क्रमः परिपाटी, सा यस्मादिति संबन्धः । पुनश्च विशिनष्टि-यो ऽयं स्वयं राजते स्वप्रकाशः । ननु किमिदं स्वप्रकाशत्वम् ? ज्ञानाविषयत्वे सत्यपरोक्षव्यवहारयोग्यत्वम् । तदुक्तं तत्त्वप्रदीपिकायाम् - 'अपरोक्षव्यवहृतेर्योग्यस्याधीपदस्य नः । संभवे स्वप्रकाशस्य लक्षणासंभवः कुतः ॥' इति । क राजते ? सूरीणां हृत्पङ्कजे, 'अगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति' इत्युक्तत्वात् । ननु व्यापकस्य परमात्मनः कथं मूर्तधर्मो हृद्यवस्थानम् ? अत आह–अनुरञ्जक इति | व्यापकस्यापि परमेश्वरस्य प्राणिनां हृत्पङ्कजे ऽभिव्यक्तिः । तदुक्तं व्यासेन --- 'अभिव्यक्तरित्याश्मरथ्यः' इति । केन हृद्यभित्र्यज्यते ? चित्तेन । कीदृशेन ? ब्रह्मप्रन्थिजमारुतानुगतिना | सुषुम्णया सहेडापिङ्गलयोः संबन्धस्थानं ब्रह्मप्रन्थिः ; तस्माज्जातो यो मारुतस्तत्रानुगतिः सहगमनं यस्य तादृशेन । अनुः सहार्थे । यद्वा, अनुगतं विद्यते ऽस्मिन्निति मत्वर्थ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy