________________
संगीतरत्नाकरः
[पदार्थस्थानम् , प्रणव इत्यर्थः, तदनु । अत्र ‘अनुर्लक्षणे' इत्यनोः कर्मप्रवचनीयत्वे · कर्मप्रवचनीययुक्ते द्वितीया' इति श्रुतिपदमिति द्वितीया । रञ्जकः स्वव्यतिरिक्तं स्वात्मन्यन्तर्भावयन्महारजनादिवत्तथोक्तः । अथ वा, श्रुतिपदम् , श्रुतयो ऽवान्तरवाक्यानि, तासां पदं स्थानम् , उपक्रमादिना लिङ्गेन • सदेव सोम्येदमग्र आसीत् ' इत्यादिः 'तत्त्वमसि' इत्यन्तः संदर्भो महावाक्यम् । अन्विति, अस्य श्रवणानन्तरं शाव्द्यादिप्रतिपत्तिक्रमण भेदनिरासात्तत्त्वंपदार्थयोरैक्याभ्यासे सति । यो ऽयमिति । अत्र यच्छब्देनागमवेद्यत्वमुक्तम् , अयमितीदमा निर्देशेन तु श्रवणानन्तरं मनने कृते मानसप्रत्यक्षत्वम् । स्वयं राजते स्वेनैव प्रकाशते, साक्षात्कारे सति वृत्त्युपाध्युच्छेदे स्वस्वरूपेण नित्यं प्रकाशत इत्यर्थः । यथोक्तं योगयाज्ञवल्क्य
धारयन्मनसा वायुं व्याहरन्प्रणवाक्षरम् । आसने ऽनन्यधीरास्ते रहस्ये विजितेन्द्रियः ।। संप्राप्ते मारुते तस्मिन्सुषुम्णायां वरानने । मन्त्रमुच्चार्य मनसा हृन्मध्ये धारयेत्सुधीः ।। वायुना पूरिते व्योम्नि साङ्गोपाङ्गकलेबरे | तदा ऽऽत्मा राजते तत्र यथा व्योम्नि विकर्तनः ।। यद्यत्पश्यति तत्सर्व पश्येदात्मवदात्मनि ।' इति ।
ग्रामविभागवर्णरचनाऽलंकारजातिकमः । ग्रामशब्देन लोका 'उच्यन्ते, तेषां विभागः, वर्णा ब्राह्मणादयः, तेषां रचना, वर्णानामानुलोम्येन प्रातिलोम्येन चोत्पन्ना या जातयस्ता वर्णोपस्कारकत्वेनालंकारजातय उच्यन्ते ;
लक्ष्यन्ते.
Scanned by Gitarth Ganga Research Institute