________________
-संग्रहः १]
प्रथमः स्वरगताध्यायः तेषां ग्रामविभागादीनां क्रमः, यस्माद्भवतीत्यध्याहारः, 'यत्र क्रियान्तराभावस्तत्रास्तिर्भवतिः परः' इति शान्दन्यायात् । एतनेश्वरं प्रति जगतस्तटस्थलक्षणत्वं दर्शितं यथा जन्मादिसूत्रे • यतो वै-' इति वाक्यं विषयीकृत्य प्रतिपादितम् ' ब्राह्मणो ऽस्य मुखमासीत' इत्यादिश्रुतौ च । नादतनुं नादविग्रहम् , 'तत्सृष्ट्वा तदेवानुप्राविशत' इति श्रुतेः । उद्धरजगद्गीतम् उद्धरमुद्भटं यथा भवति तथा जगता गीतं स्तुतं तं शंकरं मुदे निरतिशयसुखावाप्त्य वन्दे प्रणमामि । अप्रस्तुतप्रतीयमानस्वरपक्षे तु--सूरीणां तद्विदां हृत्पङ्कजे मन्द्रस्थाने । ब्रह्मग्रन्थीति पदस्य स एवार्थः । चित्तेन विवक्षमाणात्मप्रेरितेन मनसा । श्रुतिपदम् , श्रुतयः षड्जादिस्वराणामभिव्यञ्जिकाश्छन्दोवत्यादयः, तासां पदम् । पदमिति जातावेकवचनम् , पदं स्थानानीति । ऊर्ध्वनाडीसंलग्ना यास्तिरश्च्यो नाड्यस्तासु चित्ताकृष्टमारुताहतेरुत्पन्नो नादः पदशब्देन लक्ष्यते, तस्थे तदुपचारात् । तदनु तदविच्छेदेन रञ्जकः, स्वकारणश्रुतेः स्वस्वरूपोत्पादकत्वाच्छ्रोतृप्रीतिजनकत्वाच्च । यो ऽयं शास्त्रप्रसिद्धत्वेनानुभूयमानः । स्वयं राजत इति, प्रयोगे सहकारिकारणानपेक्षः प्रकाशत इत्यर्थः । एतेनाक्षरसाम्यात्स्वरशब्दनिरुक्तिर्दर्शिता । ग्रामेत्यादि । ग्रामाः षड्जग्रामादयः तेषां विभागः, वर्णाः स्थाय्यादयः तेषां रचना, अलंकाराः प्रसन्नाद्यादयः, जातयः पाड्ज्यादयः. एतेषां वक्ष्यमाणलक्षणानां ग्रामविभागादीनां क्रमो यस्मात्कारणभूतात्स्वराद्भवति । नादतनुं नादात्मकम् । उद्धरजगद्गीतम् , विशिष्टः स्वरसंदर्भो गीतम् , उद्धरमुद्भटं जगद्गीतं यस्मादिति तथोक्तम् , तं शंकरं सुखकरं मुदे आनन्दाविर्भावाय वन्दे स्तौमि ॥ १ ॥
(सुधाकरः) वेणद्वेलितगीतिरुदसलसद्वाद्यो वयस्यैः समं
तालीभिः फणिमौलिरङ्गधरणौ नृत्यक्रियाकौतुकी ।
Scanned by Gitarth Ganga Research Institute