________________
-संग्रहः १]
प्रथमः स्वरगताध्यायः वाचा गेयेन नित्यं समुचितकुसुमैस्तोषितार्धाङ्गयोषः __कीर्त्या व्याप्तस्त्रिलोकीमभिनवभरताचार्यलक्ष्मप्रपूर्त्या। पादाने वीरभूषामणिगणविलुठत्सर्ववाग्गेयकार
स्तस्यामस्ति प्रशस्तश्रुतिगणचतुरः कल्लिनाथार्यवर्यः ॥ १० ॥ वल्लभेश्वरदेवो हि यस्य साक्षात्पितामहः । असौ किं वर्ण्यते ज्ञानवैराग्यैश्वर्यसंपदा ॥ ११ ॥ माता नारायणी यस्य पिता लक्ष्मीधरः स्वयम् । शाण्डिल्यगोत्रजः सो ऽयं साक्षात्संगीतदेवता ।। १२ ।। तमाह कल्लिनाथार्य स राजा बहुमानतः । रत्नाकरं व्याकुरुष्व लक्ष्यलक्षणकोविद ॥ १३ ॥ अतः स कल्लिनाथार्यों रत्नाकरनिबन्धनम् । कलानिधिं निबध्नाति लक्ष्यलक्ष्माविरोधतः ॥ १४ ॥
इह चिकीर्षाविषयनिबन्धनप्रतिपाद्यप्रधानांशं समासोक्त्या सूचयशिष्टाचारपरिप्राप्तं दृष्टादृष्टफलं विशिष्टेष्टदेवतानमस्कारमादौ करोतिब्रह्मग्रन्थीत्यादिना । तत्र प्रस्तुतवाच्यशंकरपक्षे~सूरीणां योगिनां हृत्पङ्कजे हृदयस्थानस्थिते ऽनाहताख्ये द्वादशदलचक्रे, ब्रह्मग्रन्थिजमारुतानुगतिना, ब्रह्मग्रन्थिर्नाम देहस्य गुदलिङ्गयोर्मध्ये स्थिताच्चतुर्दलादाधाराख्याचक्राद्वयगुलान्तरादूर्ध्वं मेहनाद्यगुलान्तरादध एकाङ्गुलं तप्तकाञ्चनप्रभं सूक्ष्माग्निशिखाऽऽश्रयो यहेहमध्यं नाम चक्रमस्ति तस्मान्नवागुलान्तरादुपरि चतुरगुलोत्सेधायामो नाभिकंदः, तत्र जातो मारुतो नाभीहृदयनासाऽऽस्यस्थानेषु चरञ्शब्दोच्चारणादिकारणं प्राणो नाम वायुः, तस्यानुगतिर्यस्य तेन चित्तेनान्तःकरणेन करणभूतेन, श्रुतिपदमनु, श्रुतीनां वेदानां पदमुत्पत्ति
1.प्रपूा .
Scanned by Gitarth Ganga Research Institute