SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २८८ संगीतरत्नाकरः [गीति ध्रुवकाऽऽदिभिरष्टाभिर्द्विरुक्तान्त्यद्वयेन च । तदा ऽर्धमागधी ते द्वे तद्वत्तालान्तरेष्वपि ॥ २४ ॥ संभाविता भूरिगुरुकिले वार्त्तिके पथि । चतुष्कले भूरिलघुर्दक्षिणे पृथुला मता ।। २५ ।। इति प्रथमे स्वरगताध्याये ऽष्टमं गीतिप्रकरणम् ॥ ८ ॥ इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दनिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे स्वरगताध्यायः प्रथमः । नेन सार्धगणेन युक्तम् । छगणस्य षण्मात्राः, अर्धस्य तिस्रो मात्राः; एवं नवभिर्मात्राभिर्योगे त्रिमात्रिकस्य प्लुतस्य द्वादशमात्राऽऽत्मकत्वं भवति । प्लुतमेवंरूपं कृत्वा ध्रुवकाऽऽदिभिरष्टाभिः क्रमेण प्रयोगे सति, अवशिष्टं मात्राचतुष्टयम् ; द्विरुक्तान्त्यद्वयेन च, अन्त्ययोर्मात्रयोः पताकापतितयोर्द्वयोद्विरुक्तं द्विरावृत्तम् ; द्विरुक्तं च तदन्त्यद्वयं च, तेन च यदा प्रयुज्यते । अयमर्थः ---अवशिष्टं मात्राचतुष्टयं पताकापतितापताकापतिताभिः क्रमेण प्रयुज्यते चेत्तदा ऽर्धमागधीत्यभिधीयते । ते द्वे मागध्यर्धमागध्यौ तालान्तरेप्वपि पञ्चपाण्यादिप्वपि तद्वच्चञ्चत्पुटे यथा तथा योजनीये इत्यर्थः । संभावितापृथुलयोर्लक्ष्मणी स्पष्टार्थे । एता गीतयः षाज्यादिषु चित्रादिमार्गवशाद्यथास्वनियमं प्रयोक्तव्या इत्यवगन्तव्यम् ॥ -२२-२५ ॥ भूमौ स्वरगताख्यातः कल्लिनाथः सुधीः स्वयम् । इति स्वरगताध्यायं व्याख्यल्लक्षणलक्ष्यवित् ॥ इति श्रीमदभिनवभरताचार्यरायबयकारतोडरमल्ललक्ष्मणाचार्यनन्दनचतुरकल्लिनाथविरचिते संगीतरत्नाकरकलानिधौ प्रथमः स्वरगताध्यायः ॥ १॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy