SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ८] प्रथमः स्वरगताध्यायः तृतीयं लघु युग्मस्य च्छगणार्धयुतं यदा ॥ २२ ॥ आधाभ्यामन्तिमाभ्यां च मात्राभ्यां संप्रयुज्यते । ततः प्लुतं सार्धगणयुक्तं कृत्वा प्रयुज्यते ॥ २३ ॥ याभिः प्रत्येकं प्रयोक्तव्यमित्यर्थः । ततो दक्षिणे दक्षिणमार्गे ध्रुवकाऽऽदिभिः, ध्रुवकासर्पिणीकृष्यापद्मिनीविसर्जिताविक्षिप्तापताकापतिताऽऽख्याभिर्वक्ष्यमाणलक्षणाभिरष्टभिर्मात्राभिः ; अत्रोपाध्युपाधिमतोरभेदोपचारादू ध्रुवकाऽऽदीनां मात्राव्यवहारो द्रष्टव्यः ; ताभिर्युक्तमेकैकं गुरुं प्रत्येकं चतुष्कलीकृत्येत्यर्थः ; यदा प्रयुज्यत इति संवन्धः । एवं यदा प्रयुज्यते तदा मागधी गीतिरित्यभिधीयते । गुरुद्वयस्य त्रिरावृत्तत्वादित्यभिप्रायः ॥ -२०-२१- ॥ (सु०) अन्यथैतासां गीतीनां लक्षणमाह-यद्वेति । यथाऽक्षरे युग्मे चच्चत्पुटे प्रथमयोYोरेकैकं गुरुं चित्रमार्गयोग्यं प्रयुज्य चगणेनान्वितम् | 'तद्गणाश्छपचास्ती' इति गणान्प्रबन्धाध्याये वक्ष्यति । ध्रुवकाऽऽदिभिः 'ध्रुवका सर्पिणी कृष्या पद्मिनी च विसर्जिता । विक्षिप्ताऽऽख्या पताका च मात्रा स्यात्पतिता ऽष्टमी ॥' इति तालाध्याये वक्ष्यमाणाभिरष्टभिर्मात्राभिर्युक्तं तदेव चचत्पुटस्याद्यं गुरुद्वयं दक्षिणे मार्गे यदा प्रयुज्यते, तदा मागधी गीतिः ।। -२०-२१-॥ ___ (क०) अथार्धमागधी लक्षयति-तृतीयमिति । युग्मस्य चच्चत्पुटस्य, यथाऽक्षरस्येति शेपः ; तृतीयं तालावयवत्वेन गुरुद्वयानन्तरगं लघु, छगणार्धयुतम् ; छगणः षण्मात्रिको मात्रागणविशेषः, तस्या मात्रात्रयम् , तेन युतम् , स्वेन सह चतुर्लध्वात्मकं कृतमित्यर्थः । आद्याभ्यां मात्राभ्यां ध्रुवकासर्पिणीभ्याम् , अन्तिमाभ्यां च, पताकापतिताभ्यां चेत्यर्थः ; एवं यदा संप्रयुज्यते, ततो ऽनन्तरं प्लुतं चच्चत्पुटान्तिमावयवं प्लुतं सार्धगणयुक्तम् । अत्र सामान्यगणशब्देन संनिहितश्छगणो गृह्यते ; अर्धशब्देन च तदर्ध गृह्यते । अर्धेन सहितः सार्धः, मात्रात्रयसहितो गण इत्यर्थः । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy