SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २८६ संगीतरत्नाकरः [गीति सा धनि धा धा धा सा धा नी पा निधप मा मा प्र ण म त यद्वा यथाऽक्षरे युग्मे गुर्वोः प्रथमयोर्यदा ।। २० ॥ एकैकं चित्रमार्गादि प्रयुज्य चगणात्मकम् । मात्राभिरष्टभिर्युक्तं दक्षिणे ध्रुवकाऽऽदिभिः ॥ २१ ॥ प्रयुज्यते तदा गीतिर्मागधीत्यभिधीयते । (सु.) पृथुलां लक्षयति-भूरिलघ्वक्षरपदेति । लघून्यक्षराणि लघ्वक्षराणि बहूनि यस्याम् , अन्यलक्षणं संभावितावत् ; सा पृथुला । यथा सुरनतहरपदयुगलं प्रणमतेति पदचतुष्टयं प्रथमकलायां गीत्वा द्वितीयकलायां मध्यमपदयोरािवृत्तिः, तृतीयकला पूर्वकलावत् । इयं पृथुला मतान्तरेण ॥ १९ ॥ (क०) एवं पदाश्रितत्वेन गीतीर्लक्षयित्वा तालाश्रितत्वेनाप्येता लक्षयति- यद्वेत्यादिना । यथाऽक्षरे गुरुद्वयलघुप्लुतात्मके युग्मे चच्चत्पुटे प्रथमयोः प्रथमद्वितीययोर्गोंर्द्विमात्रिकयोर्मध्य एकैकं गुरुं चित्रमार्गार्ह स्वत एव मात्राद्वयात्मकत्वाच्चित्रमार्गप्रयोगयोग्यं प्रयुज्य ध्रुवकापतितायुक्तं कृत्वा ततश्चगणात्मकम् ; चगणश्चतुर्मात्रिको मात्रागणविशेषः ; तथा च वक्ष्यति'तद्गणाश्छपचास्तदौ' इति ; स चगण आत्मा यस्य तत्तथोक्तम् ; प्रयुज्येत्यावर्तनीयम् ; चगणात्मकं प्रयुज्य द्विकलीकृत्य चतुर्मात्राऽऽत्मकमेकैकं गुरुं वार्तिकमार्गाश्रयणाद् ध्रुवकासर्पिणीपताकापतिताऽऽरव्याभिः करक्रि 1चगणान्वितम्. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy