SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्रकरणम ८] प्रथमः स्वरगताध्यायः भूरिलध्वक्षरपदा पृथुला संमता सताम् । यथा मा गा री गा सु र न त यस्यां सा। तेन कचिद्विरललध्वक्षरप्रयोगो ऽप्यङ्गीकृतो भवति । तथा चतुर्मात्रिकासु कलासु प्रथमकलागतपञ्चस्वराणां प्रथमं युक्तपरतया गुरुणा भकारेण तृतीयस्वरं क्त्येति गुरुणा योजयित्वेतरत्स्वरद्वयं तच्छेषत्वेन गायेत् । द्वितीयकलागतचतुःस्वराणां प्रथमतृतीयौ देवमिति गुर्वक्षराभ्याम् , तथा तृतीयकलागतचतुःस्वराणां च प्रथमतृतीयौ रुद्रमित्यक्षराभ्याम् , तथा चतुर्थकलागतचतुःस्वराणां प्रथमतृतीयौ वन्द इत्यक्षराभ्यां च योजयित्वेतरस्वरांस्तत्तदक्षरशेषतया गायेत् । भक्त्या देवं रुद्रं वन्दे, इति संक्षेपितानि पदानि । एवं लिखितोदाहरणादन्यत्राप्यूह्यम् । कलास्वरविशेषास्तु यां कांचिजातिमाश्रित्य तत्तत्कलागताः प्रयोक्तव्याः । एवं गीयमाना गीतिः संभाविता मता। 'संक्षिप्तता संभाव्यते पदानां यत्र सा संभाविता' इति निरुक्तिर्मतङ्गोक्ता || -१९ ॥ (सु०) संभावितां लक्षयति-द्विरावृत्तेति । द्विरावृत्ते पदान्तरे यस्यां सा संक्षेपितपदा बहुगुरुयुता संभाविता गीतिः। प्रथमकलायां चत्वारि पदानि गीत्वा भक्त्या देवं रुद्रं वन्द इति, द्वितीयकलायां मध्यस्थं पदद्वयं द्विर्गीयते देवं देवं रुद्रं रुद्रमिति, तृतीयकलायां प्रथमकलावद् भक्त्या देवं रुद्रं वन्द इति || -१९॥ (क०) पृथुलां लक्षयति---भूरिलघ्वक्षरपदेति । स्पष्टो ऽर्थः । सुरनतहरपदयुगलं प्रणमतेति कलाचतुष्टयपदाभिप्रायेण प्रतिस्वरं प्रयुक्ताक्षराणि 'भूयस्त्वात्पदग्रामस्य पृथुलेत्युक्ता' इति मतङ्गोक्ता निरुक्तिः ॥ १९ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy