________________
२८४
[गीति
संगीतरत्नाकरः संक्षेपितपदा भूरिगुरु: संभाविता मता ।। १९ ।।
यथा
मा रि ग भक्त्या
धा
नी
मा
मा
जातवेदसमिति गीयते ; पदखण्डनादर्थभङ्गो न भवत्यत्रापीति । अतः सामवेदप्रकृतिके संगीते गानवशात्वचित्पदानां पुनरुक्तिर|क्तिश्च न दोषायेति मन्तव्यम् || -१८, १८- ॥
(सु०) अर्धमागधी लक्षयति-पूर्वयोरिति । पूर्वयोः पदयोश्वरममन्तिममर्धं यदा द्विरुच्यते, यथा प्रथमकलायां देवमिति पदं गीत्वा द्वितीयकलायां प्रथमपदान्यार्धेन वमित्यक्षरेण सह रुद्रमिति पदम् , अर्थाद्वं रुद्रमिति गीयते, तृतीयकलायां द्वितीयपदान्त्यार्धेन द्रमित्यक्षरेण सह वन्द इति पदं गीयते । अत्रापि कलात्रये विलम्बितमध्यद्रुतलया ज्ञातव्याः ॥ -१८, १८- ॥
(क) संभावितां लक्षयति—संक्षेपितपदेति । संक्षेपितानि पदानि यस्यां सा तथोक्ता । अत्र प्रतिकलं यावत्स्वरमक्षरप्रयोगः पदानां विस्तरः, तत्संकोचः संक्षेपः । संक्षेपशव्दात् 'तत्करोति--' इत्यादिना निष्ठायां संक्षेपितेति रूपम् । एतेन कलागतस्वरेषु कतिपयानामेवाक्षरयोगः कर्तव्य इत्युक्तं भवति । भूरिगुरुः, भूरीणि प्रचुराणि गुर्वक्षराणि
Scanned by Gitarth Ganga Research Institute