SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ८ ] प्रथमः स्वरगताध्यायः २८९ (सु० ) अर्धमागर्धी लक्षयति - तृतीयमिति । युग्मस्य चञ्चत्स्य तृतीयं लघु, छगणस्यार्धेन युतम् आद्याभ्यां ध्रुवका सर्पिणीभ्यां मात्राभ्यामन्तिमाभ्यां पताकापतिताभ्यां च प्रयुज्यते, ततश्चञ्चत्पुटस्य चतुर्थ प्लुतसंज्ञर्क सार्धगणयुक्तं छगणार्धेन युक्तं कृत्वा ध्रुवकाऽऽदिभिरष्टाभिर्मात्राभिः पताकापतिताभ्यां मात्राभ्यां द्विगुणाभ्यां च यदा प्रयुज्यते तदा ऽर्धमागधी । ते द्वे मागध्यर्धमागध्यौ यथा चच्चत्पुटे युक्ते तथा चाचपुटादितालान्तरेष्वपि ज्ञातव्ये । संभावितां लक्षयति-संभावितेति । द्विकले चञ्चत्पुटे वार्त्तिके पथि वार्त्तिकमार्गे बहुगुरुयुक्ता पूर्वोक्तनयेन संभाविता गीतिः । चतुष्कले दक्षिणे मार्गे बहुलघुयुक्ता पूर्वोक्तप्रकारेण पृथुला गीतिज्ञेया ॥ - २२ - २५ ॥ इति गीतिलक्षणम् ॥ ८ ॥ इति श्रीमदन्धमण्डलाधीश्वरप्रतिगण्ड भैरवश्रीअनपोत नरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचितायां संगीतरत्नाकरटीकायां सुधाकराख्यायां स्वरगताध्यायः समाप्तः । 37 Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy