SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २८२ [गीति संगीतरत्नाकरः पूर्वयोः पदयोरर्धे चरमे द्विर्यदोदिते ॥ १८ ॥ तदा र्धमागधी पाहुः यथा मा री गा सा (सु०) जातिगीतानामुपयोग उक्तः । किंलक्षणास्ता गीतय इत्यपेक्षायामाह-वर्णाद्यलंकृतेति । वर्णाः स्थाय्यादयः, आदिना ऽलंकाराः प्रसन्नादयश्च, तैर्भूषिता । पदलयान्विता, पदं प्रसिद्धम् ; लयो द्रुतमध्यविलम्बिताख्यस्तालावान्तरकालस्तालाध्याये वक्ष्यमाणः, ताभ्यामन्विता गानक्रिया गीतिरित्युच्यते । सा चतुर्विधा-मागध्यर्धमागधी संभाविता पृथुलेति । तत्र मागध्या लक्षणं कथयति-गीत्वेति । आद्यायां कलायां विलम्बितलयेन पदं गायेत् । द्वितीयकलायां तदेव पदं पदान्तरेण संयुतं मध्यलयेन गायेत् । तृतीयस्यां तु कलायां ते द्वे पदे तृतीयपदसहिते द्रुतलयेन गायेत् । एवं त्रिरावृत्तपदा त्रिकलां मागधी बुधा गीतविशारदा जगदुरवादिषुः । देवमिति विलम्बितलयेन गीत्वा द्वितीयकलायां तदेव देवपदं रुद्रपदेन सहितं देवं रुद्रमिति मध्यलयेन गीयते । तृतीयकलायां देवं रुद्रमिति पदद्वयं वन्द इति पदान्तरेण सहितं देवं रुदं वन्द इति द्रुतलयेन गीयते ॥ -१४-१७- ॥ (क०) अर्धमागधी लक्षयति-पूर्वयोरिति । उक्तेषु त्रिषु पदेषु पूर्वयोः पदयोर्देवं रुद्रमित्येतयोश्चरमे ऽर्धे, देवंपदस्य चरममधे वमिति ; रुद्रंपदस्य चरममधे द्रमिति ; ते वं दं इत्युभे अर्धे यदा द्विरेव द्वयम् , उदिते उच्चारिते भवतस्तदा ऽर्धमागधीं प्राहुः । अयमर्थः-प्रथमकलायां मागध्युक्तप्रकारेण देवमिति पदमुच्चार्य द्वितीयायां वं रुद्रमित्युच्चारयत । । पूर्वयोः पदयोरर्ध चरमं द्विर्यदोच्यते. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy