SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ८] प्रथमः स्वरगताध्यायः २८१ यथा मा गा मा धा धनि धनि सनि धा दे वं रु रिंग रिंग मग रिस देवं रुद्रं वं दे चेत्यादिना । ताः क्रमेण लक्षयितुमाह--एतासामिति । मागधीं लक्षयति-गीत्वेत्यादिना । उदाहरणार्थ तावच्चतुर्मात्रिकाः कलाः कल्पनीयाः । तत्राद्यायां विलम्बितलयं विवक्षितकलाचतुर्गुणितविश्रान्तिकालं पदम् । अत्र देवमित्यक्षरद्वयात्मकं पदं गीत्वैकैकाक्षरे मात्राद्वयमितं गीत्वा द्वितीयस्यां कलायां मध्यलयं द्विगुणविश्रान्तिकालं पदान्तरसंयुतं रुद्रमिति पदान्तरेण युक्तं तत्प्रथमकलागीतं देवमिति पदं गीत्वेत्यनुपञ्जनीयम् । गीत्वा देवं रुद्रमिति पदद्वयं द्विस्वरात्मिकयैकस्वरात्मिकया वा मितैकैकाक्षरं गायेदित्यर्थः । तृतीयस्यां कलायां द्रुते लये विलम्बितमध्यापेक्षया शीघ्रतमायां क्रियाविश्रान्तौ सतृतीयपदे वन्द इति तृतीयपदसहिते ते च द्वितीयकलागीते देवं रुद्रमिति पदे । चकारादत्रापि गायेदित्यनुषङ्गः । अस्यां कलायां प्रथममात्रया देवमिति द्वितीयया रुद्रमिति तृतीयया वमिति चतुझं दे इति योजयित्वा गायेदित्यर्थः । इत्युक्तप्रकारेण त्रिरावृत्तपदां कलात्रये देवमिति पदस्य त्रिरावृत्तत्वात्निरावृत्तपदाम् ; गीतिमित्यध्याहर्तव्यम् ; बुधाः संगीतशास्त्रज्ञा मागधी जगदुः । अत्र लिखितोदाहरणादन्यत्राप्येवमेवोहनीयम् । अस्या मगधदेशोद्भवत्वान्म।गधीति निरुक्तिर्मतङ्गोक्ता ॥ -१४-१७- ॥ 36 Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy