SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २८० संगीतरत्नाकरः [गीतिसकरम् ॥ ७॥ नम तं हरं परमशिवम् ॥ ८॥ इति नैषादीकपालपदानि ॥ ७ ॥ इति सप्त कपालपदानि ।। वर्णाद्यलंकृता गानक्रिया पदलयान्विता ।। १४ ।। गीतिरित्युच्यते सा च बुधैरुक्ता चतुर्विधा । मागधी प्रथमा ज्ञेया द्वितीया चार्धमागधी ॥ १५ ॥ संभाविता च पृथुलेत्येतासां लक्ष्म चक्ष्महे । गीत्वा कलायामाद्यायां विलम्बितलयं पदम् ॥ १६ ।। द्वितीयायां मध्यलयं तत्पदान्तरसंयुतम् । सतृतीयपदे ते च तृतीयस्यां द्रुते लये ॥ १७ ॥ इति त्रिरावृत्तपदां मागधीं जगदुर्बुधाः । भागेन दर्शयितुमाह-कपालानां क्रमाद ब्रूम इत्यादिना । तेषां स्वरयोजना तत्तल्लक्ष गानुसारेणोन्नेया ॥ १३ ॥ (सु०) कपालपदानि प्रतिज्ञाय कथयति-कपालानामिति । कपालपदेषु न व्याख्येयमस्ति किंचित् ॥ १३ ॥ (क०) अथ जात्युपयोगिनी गीति सामान्यविशेषाभ्यां दर्शयतिवर्णालंकृतेत्यदिना। वर्णद्यलंकृता; वर्णाः स्थाय्यादयश्चत्वारः ; आदिशब्देनालंकारा गृह्यन्ते ; ते च प्रसन्नादयस्त्रिषष्टिः ; प्रागुक्तलक्षणैस्तैर्वर्णादिभिरलंकृता भूषिता; ये वर्णा ये ऽलंकाराश्चोदितास्तैर्युक्तेत्यर्थः । पदलयान्विता; पदानि सुप्तिङन्तानि ; लया विलम्बितमध्यद्रुतास्त्रयो वक्ष्यमाणलक्षणाः; पदैश्च यथायोगं लयैश्वान्विता । एवं विशिष्टा गानक्रिया गीतिरित्युच्यत इति सामान्यलक्षणम् । तद्विशेषांश्चतुर्धा विभजते-सा Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy