SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २७८ संगीतरत्नाकरः [गीतिपञ्चमीजातिसंजातमल्पताबहुतावशात् । स्वराणां बहवो भेदास्तस्य पूर्वैरुदीरिताः ॥ १२ ॥ प्रीतः कम्बलगानेन कम्बलाय वरं ददो। पुरा पुरारिरद्यापि प्रीयते तैरतः शिवः ।। १३ ।। कपालानां क्रमाद् ब्रूमो ब्रह्मप्रोक्तां पदावलीम् । झण्टुं झण्टुं ॥१॥ खदाङ्गधरं ॥ २ ॥ दंष्ट्राकरालं ।। ३ ।। तडित्सदृशजिदं ॥ ४ ॥ हो हो हो हो हो हो हो हौ ॥ ५ ॥ बहुरूपवदनं घनघोरनादं ॥ ६॥ हो हो हो हो हो हो हो हो ।॥ ७ ॥ ॐ ॐ हां रौं हौं हौं हौं हौं ॥ ८ ॥ नृमुण्डमण्डितम् ॥ ९॥ हूं हूं कह कह हूं हूं ॥ १० ॥ कृतविकटमुखम् ॥ ११ ॥ नमामि देवं भैरवम् ॥ १२ ॥ इति पाइजीकपालपदानि ॥१॥ निगदव्याख्यातमेतत् । कम्बलनाम्ना खण्डपरशुकर्णकुण्डलेन कुण्डलीन्द्रेण गीतत्वादस्य कम्बलसंज्ञा ॥ ११ - १३ ॥ (सु०) कम्बलं निरूपयति-योति । यत्र पञ्चमो ग्रहो ऽशो ऽपन्यासश्च, ऋषभस्य बाहुल्यम् , षड्जो न्यासः, मध्यमवतगांधाराणामल्पत्वम् , तत्पञ्चमीजातेः समुत्पन्नं कम्बलमित्युच्यते । तस्य कम्बलस्य स्वराणामल्पत्वेन बहुत्वेन च बहवो भेदा भरतादिभिः पूर्वाचार्यैरुदीरिताः; ते तत्तद्ग्रन्थेषु विलोकनीयाः । इह तु ग्रन्थविस्तरभयानोच्यन्त इत्यर्थः । कम्बलशब्दप्रवृत्तिनिमित्तं कम्बलगानस्य फलं च कथयति-प्रीत इति । यस्मात्कम्बलो नागो गीतवांस्तस्मात्कम्बलगानमित्यभिधीयते । ईश्वरः प्रीयते । तत्प्रीत्या च सकलपुरुषार्थसिद्धिः फलम् ॥ ११-~१३ ॥ इति कम्बललक्षणम् ॥ (क०) 'गायन्ब्रमोदितैः पदैः' इति कपालगाननियमे प्रसक्तानां ब्रह्मोदितपदानां स्वरूपं हुमादिस्तोभाक्षरसहितं तत्तत्कपालोक्तकलासंख्यावि Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy