________________
प्रकरणम् ८]
प्रथमः स्वरगताध्यायः यत्र ग्रहो शो ऽपन्यासः पञ्चमो बहुलस्तु रिः ।
सो न्यासो मधगांधारास्त्वल्पास्तत्कम्बलं मतम् ॥ ११ ॥
(सु०) 'कपालानि च कम्बलम् । नानाविधा गीतयश्च०' इति पदार्थसंग्रहोक्तवस्तुक्रमानुरोधादुपयोगित्वेनोद्देशक्रममनुल्लड़्यादौ कपालानि नि. रूपयितुमाह-शुद्धजातीति । यस्या जातेयत्कपालं समुत्पन्नं तजातिरागा एव तस्मिन्कपाले ज्ञातव्याः ॥ १ ॥ षाड्जीकपालं लक्षयति-षड्ज इति । यस्मिन्षड्जस्वर एव ग्रहश्वांशश्वापन्यासश्च, गांधारो न्यासः, गांधारमध्यमयोरतिबाहुल्यम् , ऋषभपञ्चमनिषादधेवतानामल्पत्वम , ऋषभस्य लङ्घनमीषत्स्पर्शः, द्वादश कलाः, तत्षाड्जीकपालं भरतादिभिर्गदितम् ॥ २, २- ॥ आषभीकपालं लक्षयति—यत्रेति । यत्रर्षभो ऽशो ऽपन्यासश्च, मध्यमो न्यासः, परंतु गांधारनिषादपञ्चमधैवता अल्पाः, षड्जो ऽत्यल्पः, अष्टौ कला:, तदार्षभीकपालम् ॥ -३, ३-॥ गांधारीकपालं लक्षयति-मध्यमो इंश इति । यत्र मध्यमो ऽशस्वरो ग्रहो न्यासो ऽपन्यासश्च, धैवतस्य बाहुल्यम्, षड्जर्षभगांधारपश्चमा अल्पाः , ऋषभपञ्चमलोपादौडुवम्, अष्टौ कला:, तद् गांधारीकपालम् ॥ -४, ५ ॥ मध्यमाकपालं लक्षयति-मध्यमो इंश इति । यत्र मध्यमो ऽशस्वरः, निषादर्षभगांधारपञ्चमाः स्वल्पाः, नव कला:, तन्मध्यमाकपालम् ॥ ६ ॥ पञ्चमीकपालं लक्षयति-ऋषभांशमिति । यत्र ऋषभो ऽशस्वरः, षड्जो ग्रहः, निषादधैवतषड्जगांधारमध्यमा अल्पाः, अष्टौ कलाः, तत्पञ्चमीकपालम् ॥ ७ ॥ धैवतीकपालं लक्षयति-अत्यल्पेति । यत्रर्षभगांधारावत्यल्पो, पञ्चमो न्यासः, मध्यमवतयोबहुत्वम् , अष्टौ कला:, अन्यत्षाजीकपालवत, तत्तु धैवतीकपालम् ॥ ८ ॥ नैषादीकपालं लक्षयति-प्रहांशेति । यत्र षड्जो ग्रहो ऽशो न्यासश्च, ऋषभगांधारयोरल्पत्वम् , निषादधैवतमध्यमा अतिबहुला:, अष्टौ कलाः, तन्नषादीकपालम् ॥ ९ ॥ कपालगाने फलमाह-इतीति । इति ब्रह्मप्रोक्तैर्जातिप्रस्तारे कथितैः पदैरुक्तैः स्वरश्च सप्त कपालानि गायन्कल्याणं भजते ॥ १० ॥ इति कपाललक्षणम् ।।
(क०) अथ यथोद्देशक्रमं कम्बलं लक्षयित्वा तस्योत्पत्तिं तद्भेदबाहुल्यं च प्रदर्श्य तद्गानस्य फलमाह-यत्र ग्रहो ऽशो ऽपन्यास इत्यादिना ।
Scanned by Gitarth Ganga Research Institute