________________
२७६
संगीतरत्नाकरः
[गीतिसो ऽत्यल्पो ऽष्टकलं तत्स्याकपालं त्वार्षभीगतम् । मध्यमो' शो ग्रहो न्यासो ऽपन्यासो धैवतो बहुः ॥४॥ यत्राल्पाः सरिगा लोपाद्रिपयोरौडवं भवेत् । तद्गांधारीकपालं स्यात्कलाऽष्टकविनिर्मितम् ॥ ५ ॥ मध्यमो ऽशो निरिगपाः स्वल्पा यत्र कला नव । तन्मध्यमाकपालं स्यादिति निःशङ्कसंमतम् ।। ६ ॥ ऋषभांशं सग्रहं च निधषड्जगमाल्पकम् । कपालं पञ्चमीजातिजातमष्टकलं विदुः ॥ ७॥ अत्यल्पर्षभगांधारं पन्यासं मधभूरि च । षाज्या इव कपालं तदैवत्याः सकलाऽष्टकम् ॥ ८॥ ग्रहांशन्यासषड्ज च रिंगाल्पमतिभूरिभिः । निधमैरष्टकलकं स्यानपादीकपालकम् ॥ ९॥ इति सप्त कपालानि गायन्ब्रह्मोदितैः पदैः । स्वरैश्च पार्वतीकान्तस्तुतौ कल्याणभाग्भवेत् ॥ १० ॥
गन्तव्या । अथ वा, पुरा भिक्षाऽटनसमये शंभुना षाज्यादिषु गीयमानासु निरतिशयरसाभिव्यक्त्या रसात्मिकायां तन्मौलिगतचन्द्रकलायां च सवन्त्यां तदमृतरससिक्तानि तद्भूषणब्रह्मकपालानि तदा सजीवानि तद्नानमनुकृत्यागायन्किल । अतः कपालगीतत्वात्कपालसंज्ञानीत्यैतिह्यम् । षाड्जीकपालादिलक्षणानि स्पष्टार्थानि । एतेषां जातिभ्यः स्वरूपभेदस्तु न्यासादिभेदाद् द्रष्टव्यः । उच्यमाननियमेन कपालानां गातुरदृष्टफलयोगं चाहइति सप्त कपालानीति ॥ १-१०॥
'गांधारो.
Scanned by Gitarth Ganga Research Institute