SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रथमः स्वरगताध्याय २७५ अथाष्टमं गीतिप्रकरणम् शुद्धजातिसमुद्भूतकपालान्यधुना ब्रुवे । रागा जनकजातीनां तत्कपालेषु संमिताः ॥ १॥ पड्जो ग्रहो ऽशो ऽपन्यासो गो न्यासो ऽतिबहू गमों । अल्पा रिपनिधा लझ्यो रिः कला द्वादशोदिताः ॥ २ ॥ यस्मिन्पाइजीकपालं तद्गदितं गीतवेदिभिः । यत्रर्षभो ऽशो ऽपन्यासो मो ऽन्तो गनिपघाल्पता ॥ ३ ॥ (क०) अथोद्देशक्रमेण कपालानि लक्षयितुमादौ तदुत्पत्तिं दर्शयन्प्रतिजानीते---शुद्धजातीति । अधुना जातिस्वरूपनिरूपणानन्तरं शुद्धजातिसमुद्भूतकपालानि, शुद्धजातिभ्यः पाडज्यादिभ्यः सप्तभ्यः समुद्भूतानि कपालानि । एतेन संसर्गजजातिभ्यः कपालोत्पत्तिनेंत्युक्तं भवति । ननु जातित्याविशेपात्ताभ्यो ऽपि कपालोत्पत्तिः कुतो नेति चेत् ; उच्यते । संसर्गजा अपि शुद्धाभ्यः समुत्पन्नाः । कपालान्यपि ताभ्य एव । उभयेषामप्येककारणादव्यवधानोत्पन्नत्वस्याविशिष्टत्वात्संसर्गजानां कपालजातीयं प्रति कारणत्वायोगादिति कपालपरिज्ञानस्य दृष्टप्रयोजनं तावदर्शयतिरागा इति । जनकजातीनाम ; अत्र शुद्धजातयो जनकत्वेन विवक्षिताः; तासां रागा जन्या रागाः, षड्जे पाड्जीसमुद्भूतं श्रीरागम्' इत्यादिना वक्ष्यमाणप्रकारेण श्रीरागादयो रागाः : तत्कपालेषु तासां षाड्ज्यादीनां कपालेषु संमिताः सदृशाकाराः प्रतीयन्ते । रागस्वरूपपरिज्ञानमत्र प्रयोजनमित्यर्थः । यथा घटैकदेशत्वेन कपालानि घटप्रतीतिजनकान्येवमेतान्यपि गगैकदेशत्वेन रागप्रतीतिजननात्कपालानीव कपालानीति तेषां संज्ञा ऽव 1 मार्गवेदिभिः Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy