SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २७२ संगीतरत्नाकरः [जातियोक्ता ऽस्माभिः कलासंख्या सा दक्षिणपथे स्थिता ॥ १११ ॥ वार्तिके द्विगुणा ज्ञेया सैव चित्रे चतुर्गुणा । सर्वजातिषु जानीयादंशस्वरगतं रसम् ॥ ११२ ॥ इति विधेयविशेषणम् । त्रिधैवेत्यादि षाड्ज्यामेव व्याख्यातं तत एवावगन्तव्यम् ॥ ११०, ११० ॥ (सु०) यत्र विशेषो नोक्तस्तत्र साधारणं लक्षणमाह-अनुक्ताविति । यत्र तालविशेषो नोक्तस्तत्रैककलो द्विकलश्चतुष्कलश्चचत्पुटो ज्ञातव्यः । मार्गाश्च क्रमेणैककलाऽऽदिषु चित्रवृत्तिदक्षिणाः । गीतयश्च मागधीसंभावितापृथुला: क्रमशः ॥ ११०, ११०- ॥ (क०) एवं तर्हि षाड्ज्यादिलक्षणेयूक्ता कलासंख्या तत्रोक्तेषु तालमार्गगीतिभेदेषु कतमभेदेत्याकाङ्क्षायामाह-योक्ता ऽस्माभिरिति । अस्माभिर्भरतमतानुसारिभिरस्मदादिभिरित्यर्थः । या कलासंख्या पञ्चपाणौ द्वादश, चच्चरपुटं कासुचिदष्टौ, कासुचित्पोडश, एकस्यां द्वात्रिंशदित्येवं. रूपोक्ता : पाड्ज्यादिलक्षणेप्विति शेषः : सा कलासंख्या दक्षिणपथे दक्षिणमार्गे स्थितेति ज्ञेया । एतेनानया मार्गविशेषाश्रयतया कलासंग्ख्याया अत्र चतुष्कलस्तालः पृथुला गीतिश्चेति तालगीतिविशेषावप्युक्तौ भवतः । प्रत्येकं त्रिविधस्य तालादित्रितयस्य गीतिलक्षणेपु मिथो यथासंख्य योजनादिहोक्तां कलासंज्ञां दक्षिणमार्गगतामुक्त्वा तस्या एव गातुरिच्छया मार्गान्तरप्रयोगप्रकारं दर्शयति-वार्तिक इत्यादिना। सैव मागोक्ता कलासंख्यैव वार्तिके मार्गे द्विगुणा ज्ञेया । पाड्ज्यां तावदक्षिणे द्वादशोक्ता वार्त्तिके चतुर्विंशतिर्भवतीत्यर्थः । अष्टलध्यात्मिका: कला हित्वा चतुर्लध्वात्मिकाः कलाः कर्तव्या इत्यभिप्रायः । सैवेति पुनरावृत्तिः । सा Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy