________________
२७३
प्रकरणम् ७] प्रथमः स्वरगताध्यायः
दृश्यन्ते जन्यरागांशास्तज्ज्ञैर्जनकजातिषु । ब्रह्ममोक्तपदैः सम्यक्पागुक्ताः' शंकरस्तुतौ ॥ ११३ ॥ अपि ब्रह्महणं पापाजातयः प्रघुनन्त्यमूः । ऋचो यजूंषि सामानि क्रियन्ते नान्यथा यथा ।। ११४ ॥
तथा सामसमुद्भूता जातयो वेदसंमिताः । दक्षिणोक्ता कलासंख्यैव चित्रे मार्गे चतुर्गुणा ज्ञेया । षाड्ज्यां तावदष्टाचत्वारिंशत्कला भवन्तीत्यर्थः । भक्त्वा लघुद्वयात्मिका: कलाः कर्तव्या इत्यभिप्रायः । एतेनैव वार्तिके द्विकलस्तालः संभाविता गीतिः, चित्रे त्वेककलस्तालो मागधी गीतिरिति चोक्तं भवति । एवं जात्यन्तरेष्वप्यूहनीयम् । लक्षणेषु प्रत्येकं रसानामुक्तिगौरवमिति मत्वा सर्वासामपि लघूक्त्या रसयोगं दर्शयति--सर्वजातिष्विति । अंशस्वरगतं यस्यां जातौ यदा यो ऽशो भवति तस्याम् ‘सरी वीरे' इत्यादिनोक्तप्रकारेण तत्तदंशस्वरगतं रसं विजानीयात् । ज्ञात्वा तत्तद्रसाभिव्यञ्जकैः पदैर्गायदित्यर्थः ॥ -१११, ११२ ॥
__ (सु०) मार्गविशेषेण कलाविशेषं कथयति-योक्ता ऽस्माभिरिति । 'अष्टगुरुः कला' इति या कलासंख्योक्ता सा दक्षिणमार्गे । वर्तिके मार्गे षोडशगुरुः कला । चित्रे मार्गे द्वात्रिंशद्गुरुः कला । स्वराणां रसाः पूर्वमुक्ताः ‘सरी वीरे ऽद्भुते रौद्रे' इत्यादिना । यस्यां जातौ यो ऽशस्वरस्तदीयो रसस्तस्यां जातौ ज्ञातव्यः ॥ -१११, ११२ ॥
(क०) पूर्व षाड्मयादिषु कासुचिज्जातिषु विराटी दृश्यते' इत्यादिभिर्जन्यरागांशा दिङमात्रेण प्रदर्शिताः कासुचिन्न प्रदर्शिताः । तत्र सर्वत्रेदानीं संक्षेपेण रागांशान्दर्शयितुमाह-दृश्यन्त इति । जन्य
J.प्रयुक्ताः
35
Scanned by Gitarth Ganga Research Institute