________________
२७१
प्रकरणम् ७]
प्रथमः स्वरगताध्यायः अनुक्ताविह तालः स्यात्रिधैवैककलाऽऽदिकः । मार्गाः क्रमाच्चित्रवृत्तिदक्षिणा गीतयः पुनः ॥ ११० ॥ मागधी संभाविता च पृथुलेत्युदिताः क्रमात् । गांधारोदीच्यवा कार्मारवी गांधारपञ्चमी ॥ मध्यमोदीच्यवा चान्ध्री तथा स्यात्षड्जकैशिकी । तिम्रो ऽष्टकलिकाः पञ्चम्यार्षभी मध्यमा तथा । द्वात्रिंशत्कलिका चैका नन्दयन्ती प्रकीर्तिता ॥-१०७-१०९॥
(मु०) नन्दयती लक्षयति-नन्दयन्त्यामिति । नन्दयन्त्यां पञ्चमो उंशः। गांधारो ग्रहः। नन्वंशस्यैव ग्रहत्वं पूर्वमुक्तम् | मैवम् ; उत्सर्गमात्रं तदपोह्यते । मतान्तरे तु पञ्चमो ग्रह उक्तः । मन्द्रस्थानस्थर्षभस्य बहुलत्वम् । षड्जलोपात्षाडवम् । हृष्यका मूछना। चञ्चत्पुटस्ताल: । द्वात्रिंशत्कलाः । ध्रुवायां प्रथमप्रेक्षणे विनियोगः ॥ -१०७-१०९ ॥
(क०) पूर्वमेकस्मिन्नेव षाज्या लक्षणे · त्रिधा तालः पञ्चपाणिः' इत्यादिनैकतालादिपु तालभेदेषु चित्रादयस्त्रयो मार्गा मागध्यादयस्तिस्रो वृत्तयश्च क्रमेण योजनीया इत्युक्तम् । तथा केषुचिद्धैवत्यादीनां लक्षणेषु 'तालो मार्गश्च गीतयः । विनियोगश्च पाड्जीवत्' इति 'पाड्जीवद्गीतितालादिः' इति चातिदेशतो दर्शितम् । अन्येष्वार्षभ्यादीनां लक्षणेषु तु 'तालश्चञ्चत्पुटो मतः । अष्टौ कला भवन्ति' इति — कलाः पोडश कीर्तिताः' इति च तालमात्रं कलासंख्यामात्रं चोक्तम् । तत्रैककलत्वादितालविशेषमार्गगीतीनामनुक्तिरेव । तत्र कथं प्रयोग इत्याकाङ्क्षायामाह-अनुक्ताविहेति । इह जातिलक्षणेषु, अनुक्तावेककलत्वादितालभेदमार्गगीतीनामनभिधाने ताललक्षणेषूक्तश्चच्चत्पुट: पञ्चपाणिर्वैककलाऽऽदिस्त्रिधैव स्यात् । एककलाऽऽदिक
Scanned by Gitarth Ganga Research Institute