________________
प्रकरणम् ७] प्रथमः स्वरगताध्याय:
२६३ वेदनिधिमित्यक्षराणि-वे इति मः; शेषः पः; दनिभ्यां मरी; शेषो गः; धिमिति गः; शेषाः परे (६)। सप्तम्यां मध्ये रिरिगास्त्रयः ; ससावेकः ; मौ द्वौ ; पौ द्वौ ; एवमष्टौ लघवः । परिणाहितुहिनेत्यक्षराणि ; चतुर्थपञ्चमौ शेषौ (७)। अष्टम्यां षष्ठयुक्ताः स्वराः । शैलगृहमित्यक्षराणि-शै इति मः ; तच्छेषः प: ; लगृभ्यां मरी; शेषो गः ; हमिति गः; शेषाः परे (८)। नवम्यां मन्द्रे धनी द्वौ ; मध्ये गाः षट् ; एवमष्टौ लघवः । अमृतभवमिति निरन्तराण्यक्षराणि ; शेषाः परे (९)। दशम्यां मध्ये पपमास्त्रयः ; रिगावेकः ; गाश्चत्वारः ; एवमष्टौ लघवः । गुणरहितमित्यक्षराणि-गुणरहिभिः पपमरयः; शेषो गः; तमिति गः; शेषाः परे (१०)। एकादश्यां मध्ये निषादाश्चत्वारः ; ऋषभाश्चत्वारः; एवमष्टौ लघवः । तमवनिरविशशीत्यक्षराणि (११) । द्वादश्यां मध्ये रिरिंगनयश्चत्वारः; सौ द्वौ ; नी द्वौ ; एवमष्टौ लघवः । ज्वलनजलपवनेत्यक्षराणि (१२)। त्रयोदश्यां तारे पपमास्त्रयः ; रिगावेकः; गाश्चत्वारः ; एवमष्टौ लघवः । गगनतनुमित्यक्षराणि-गगनतैः प्रथमादयश्चत्वारः ; नुमिति षष्ठः ; शेषा इतरे (१३)। चतुर्दश्यां तारे रिरिंगास्त्रयः; समावेकः; मौ द्वौ ; पौ द्वौ ; एवमष्टौ लघवः । शरणं व्रजामीत्यक्षराणि ; चतुर्थपञ्चमाष्टमाः शेषाः (१४)। पञ्चदश्यां तारे मौ द्वौ ; नी द्वौ ; सरिगपाश्चत्वारः ; एवमष्टौ लघवः । शुभमतिकृतनिलेत्यक्षराणि (१५) । षोडश्यां तारे रिगावेकः ; गाः सप्त ; एवमष्टौ लघवः । यमिति रिः; शेषाः परे (१६) ।
तरुणेन्दुकुसुमखचितजटं त्रिदिवनदीसलिलधौतमुखं
नगसूनुप्रणयं वेदनिधिं परिणाहितुहिनशैलगृहम् । अमृतभवं गुणरहितं तमवनिरविशशिज्वलनजलपवनगगनतनुं
शरणं व्रजामि शुभमतिकृतनिलयम् ॥ इत्यान्धी ॥ १७ ॥
Scanned by Gitarth Ganga Research Institute