SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २६० आन्ध्रामंशा निरिगपा रिगयोर्निधयोस्तथा ॥ १०५ ॥ संगतिर्व्यासपर्यन्तमंशानुक्रमतो व्रजेत् । षाडवं षड्जलोपेन मध्यमादिस्तु मूर्च्छना ।। १०६ ।। पूर्वावत्तु कलाकालविनियोगाः प्रकीर्तिताः । संगीतरत्नाकरः अथान्धी (क०) आन्ध्रयामंशा इति । निरिगपाः पर्यायेणांशा महाश्च स्युः । रिगयोर्निधयोस्तथा । अत्र तथेति निपातः समुच्चयार्थः, निधयोश्चेति । संगतिः परस्परं संनिधिर्मेलनात्मकः संबन्धः । कर्तव्येति शेषः । परस्परं संगतिरित्यनेनानियमे प्राप्ते नियमार्थमाह – अंशानुक्रमतो न्यासपर्यन्तं व्रजेदिति । अंशानुक्रमतः ; अत्र निरिंगपानां मध्ये यदा यो ऽंशीकृतस्तस्यानुक्रमतः ; तमंशीभूतं पूर्वमुच्चार्यानंशं पर्यायांशं वा पश्चादुच्चारयन्, न्यासपर्यन्तं गीतसमाप्तिकृत्स्वरपर्यन्तम्, आ गीतपरिसमाप्तेरित्यर्थः, व्रजेद्द्वायेदिति नियमः । तथा चाह भरत: ' गांधारर्षभयोश्चात्र व्यापारस्तु परस्परम् । सप्तमस्य च षष्ठस्य न्यासगत्या ऽनुपूर्वशः || ' इति । ग्रन्थान्तरे च C 'स्वांशानुपूर्वी व्याप्तिं च कुर्वन्न्यासावधिं व्रजेत् ' [जाति इति । शेषं निर्विशेषम् ॥ -१०५-१०६- ॥ 1 ( सु० ) आन्ध्रीं लक्षयति-- आन्ध्रयामिति । आन्ध्रयां निषादर्षभगांधारपञ्चमा अंशाः । ऋषभगांधारयोर्निषादधैवतयोश्च संगतिः । अंशान्न्यासपर्यन्तमारोहणम् । षड्जलोपेन षाडवम् । मध्यमादिर्मूच्र्च्छना । गांधारपञ्चमीवत्कलातालविनियोगः ॥ - १०५-१०६- ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy