SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २५२ संगीतरत्नाकरः [जातिअथ कार्मारवी कार्मारव्यां भवन्त्यंशा निषादरिपधैवताः । बहवो ऽन्तरमार्गत्वादनंशाः परिकीर्तिताः ॥ १०१॥ गांधारो ऽत्यन्तबहुलः सर्वाशस्वरसंगतिः । चञ्चत्पुटः षोडशात्र कलाः पड्जादिमूर्च्छना ।। १०२ ॥ पञ्चमस्य प्रेक्षणस्य ध्रुवायां विनियोजनम् । देहाधरूपमतिकान्तिममलममलेन्दुकुन्दकुमुदनिभं ___ चामीकराम्बुरुह दिव्यकान्तिप्रवरगणपूजितमजेयम् । सुराभिष्टुतमनिलमनोजवमम्बुदोदधिनिनादमतिहासं शिवं शान्तमसुरचम्मथनं वन्दे त्रैलोक्यनतचरणम् ॥ इति मध्यमोदीच्यवा ॥ १४ ॥ (क०) कार्मारव्यामिति । अनंशा इह सगमाः । अनंशत्वेनाल्पा इत्यपि । अन्तरमार्गत्वात्सर्वेषामंशादिस्वरसंगहेंतोर्मुहुः प्रयोगाबहवो बहुत्वयुक्ता भवन्ति । नन्वेवमविशिष्टे बहुत्वे इंशानंशयोः को भेद इति चेत् ; उच्यते । यः स्थायित्वेन बहुप्रयोगः सो इंशः । यस्तु संचारित्वेन बहुप्रयोगः सो ऽन्तरमार्गाश्रयो ऽनंश इति विवेक्तव्यम् । 'बहुलत्वं प्रयोगेषु व्यापकं त्वंशलक्षणम्' इत्यत्रापि बहुलत्वम् 'यो रक्ति' इत्याद्यंशलक्षणे यच्छब्दाभिहितस्थायिविषयमेवेति मन्तव्यम् । एतेनास्यां जातावन्तरमार्गः कर्तव्य इत्युक्तं भवति । तथा च भरतः ____ 'अनंशा बलवन्तस्तु नित्यमेव प्रयोगतः' इति । गांधारः सर्वांशस्वरसंगतेः पर्यायांशैरपि संगतेविशेषादत्यन्तं बहुलः । सर्वोशस्वरसंगतिरपि Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy