SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः २५१ सप्तमाः शेषाः (५) । षष्ठयां मध्ये म एकः ; रिंगावेकः ; स एकः : समन्द्रधावेकः ; मन्द्रे निषादाश्चत्वारः ; एवमष्टौ लघवः । रुहदिव्यकान्तीत्यक्षराणि ; तृतीयपञ्चमषष्ठसप्तमाः शेषाः (६)। सप्तम्यां मध्ये मपनिसपपगगा अष्टौ लघवः । प्रवरगणपूजीत्यक्षराणि ; सप्तमः शेषः (७) । अष्टम्यां मध्ये ग एकः; मन्द्रे पमौ द्वौ ; निधावेकः ; नी द्वौ ; मध्ये सौ द्वौ; एवमष्टौ लघवः । तमजेयमित्यक्षराणि-तमजेभिर्गपमाः; शेषो निधौ ; यमिति निः; शेषाः परे (८)। नवम्यां मन्द्रे पौ द्वौ ; म एकः ; धनी एकः ; पाश्चत्वारः; एवमष्टौ लघवः ; सुराभिष्टुतमनिलेत्यक्षराणि ; पञ्चमो निषादः शेषः (१)। दशम्यां मन्द्रे मपमास्त्रयः ; मध्ये रिगावेकः ; गाश्चत्वारः ; एवमष्टौ लघवः । मनोजवमम्ब्वित्यक्षराणि ; चतुर्थपञ्चमसप्तमाः शेषाः (१०)। एकादश्यां मध्ये गपमपाश्चत्वारः; निषादाश्चत्वारः; एवमष्टौ लघवः । दोदधिनिनादेत्यक्षराणि ; द्वितीयसप्तमौ शेषौ (११)। द्वादश्यां मध्ये मपमास्त्रयः ; परिगा एकः ; गाश्चत्वारः; एवमष्टौ लघवः । मतिहासमित्यक्षराणिमतिहाभिर्मपमाः; समिति सप्तमः ; शेषा इतरे (१२)। त्रयोदश्यां तारे गाश्चत्वारः ; म एकः; निधावेकः ; नी द्वौ ; एवमष्टौ लघवः । शिवं शान्तमसुरेत्यक्षराणि ; चतुर्थसप्तमौ शेषौ (१३)। चतुर्दश्यां मध्ये नी द्वौ ; धपावेकः ; म एकः ; निधावेकः ; निधावेकः ; पौ द्वौ ; एवमष्टौ लघवः । चमूमथनमित्यक्षराणि-चममैर्निनिधाः ; शेषः पः ; थनंभ्यां मनी ; शेषाः परे (१४)। पञ्चदश्यां तारे रिगससमाः पञ्च ; निधनय एकः ; नी द्वौ; एवमष्टौ लघवः । वन्दे त्रैलोक्येत्यक्षराणि ; द्वितीयचतुर्थसप्तमाष्टमदशमाः शेषाः (१५) । षोडश्यां तारे नी द्वौ ; धपधपाश्चत्वारः; मौ द्वौ ; एवमष्टौ लघवः । नतचरणमित्यक्षरैः क्रमेण पञ्च ; शेषाः परे (१६) । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy