SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २४४ संगीतरत्नाकरः [जातिअथ कैशिकी कैशिक्यामृषभान्ये इंशा निधावंशौ यदा तदा । न्यासः पश्चम एव स्यादन्यदा द्विश्रुती मतौ ॥ ९५ ॥ अन्ये तु निगपान्यासानिधयोरंशयोर्विदुः ।। रिलोपरिधलोपेन पाडवौडुवितं मतम् ॥ ९६ ॥ रिरल्पो निपवाहुल्यमंशानां संगतिर्मिथः । पाडवौडुविते द्विष्टः क्रमात्पञ्चमधैवतो ॥ ९७ ॥ पाड्जीवत्पञ्चपाण्यादि गांधारादिस्तु मूर्च्छना । पञ्चमप्रेक्षणगतध्रुवायां विनियोजनम् ।। ९८ ॥ सप्तम्युक्ताः स्वराः । वदनारविमित्यक्षराणि ; चतुर्थसप्तमाष्टमाः शेषाः (८)। नवम्यां मध्ये पा अष्टौ लघवः । देन प्रथमः ; शेषाः परे (९.)। दशम्यां मध्ये रिगससरिगगगा अष्टौ लघवः । प्रीतिकरमित्यक्षराणि ; अत्र गाः शेषाः (१०)। एकादश्यां तारे गौ द्वौ ; प एकः ; धमावेकः ; ध एकः ; निधावेकः ; पौ द्वौ ; एवमष्टौ लघवः । शेषाः सर्वे (११) । द्वादश्यां तारे मपमात्रयः ; परिगा एकः ; गाश्चत्वारः ; एवमष्टौ लघवः । शेषाः सर्वे (१२)। तं बालरजनिकरतिलकभूषणविभूतिम् । प्रणमामि गौरीवदनारविन्दप्रीतिकरम् ॥ इति रक्तगांधारी ॥१२॥ (क०) कैशिक्यामिति । ऋषभान्य ऋषभादन्ये सगमपधनयः पट् स्वरा अंशाः; भवन्तीति शेषः । यदा निधावंशौ तदा पञ्चम एव न्यासः स्यादिति 'धैवते इंशे निषादे च न्यासः पञ्चम इप्यते' Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy