________________
प्रकरणम् ७] प्रथमः स्वरगताध्यायः
२४५ अस्यां कैशिक्यां गांधारपञ्चमनिषादा न्यासाः । रिवाः षट् सप्त वा स्वरा अपन्यासाः । अस्याः प्रस्तार:
१३. केशिकी १. पा धनि पा धनि गा गा गा गा
के ली ह त ।
इति मुनिवचनान्नियम्यते । अन्यदा निधव्यतिरिक्तेषु सरिगमपेप्वंशेवित्यर्थः । द्विश्रुती निगौ मतौ न्यासत्वेन संमतावित्यर्थः । अन्ये तु मतङ्गादयस्तु निधयोरंशयोर्निंगपांस्त्रीनपि न्यासान्विदुः. 'धैवतनिषादयोरंशत्वे पञ्चमो ऽपि न्यासः' इति मतङ्गोक्तत्वात् । अयं पक्षो ऽपि पञ्चमस्य न्यासत्वं निधयोरंशयोरेवेति नियमे पर्यवस्यति । रिलोपरिधलोपेनेत्येकवद्भावः । रिरल्पः पूर्णताऽवस्थायामिति भावः । निपबाहुल्यमिति निपयोरंशत्वे बाहुल्ये प्राप्ते ऽपि बलिनौ चान्त्यपञ्चमी' इति मुनिवचनात्तयोरितरांशापेक्षया ऽतिबाहुल्यं विधीयत इति बोद्धव्यम् । पञ्चमधैवतावंशीभवन्तौ क्रमात्षाडवौडविते द्विष्टः । पञ्चमः पाडवं धैवत औडवितमिति क्रमः । मध्यमग्राम ऋषभस्य पञ्चमसंवादित्वात्तु धैवतांशे तस्यैव लोप्यत्वाभावादिति भावः । षाड्जीवदित्यादि सुबोधम् ॥ ९५.-१८ ।।
(सु०) कैशिकी लक्षयति-कैशिक्यामिति । कैशिक्यामृषभादन्ये षट् स्वरा अंशाः । यदा निषादधैवतावंशौ तदा पञ्चम एव न्यासः; अन्यदा निषादगांधारौ । अन्ये तु केचिन्निषादधैवतयोरंशयोनिषादगांधारपञ्चमान्नयासान्विदुः । ऋषभलोपात्षाडवम् ; ऋषभधैवतलोपादौडुवितम् | ऋषभो ऽल्पः । निषादपञ्चमयोर्बाहुल्यम् । अंशस्वराणां परस्परं संगतिः । यदा पञ्चमो ऽशस्तदा षाडवं नास्ति । यदा धैवतो ऽशस्तदौडुवितं नास्ति । पितापुत्रकतालादि षाड्जीजातिवत् | गांधारादिद्च्छना। ध्रुवायां पञ्चमप्रेक्षणे विनियोगः ॥९५-९८॥
Scanned by Gitarth Ganga Research Institute