SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] प्रथमः स्वरगताध्याय: २४१ इति मुनिवचनात् । अत्र सगयोऋषभादितरैर्मपधनिभिः सह यथायोगं संनिधिमेलने संनिधिर्मेलनं च । इह भिन्नलघुकालयोः स्वरयोनैरन्तर्य संनिधिः ; एकलघुकालयोर्द्वयोस्त्रयाणां च नैरन्तर्ये मेलनमिति विवक्षितम् । ते कार्ये यथाशक्ति कर्तव्ये । षाडवौडुवमिति द्वंद्वैकवद्भावः । निधयोर्बहुत्वमिति । अत्र निषादस्यांशत्वेन प्राप्तमपि बहुत्वमतिशयार्थम्, धैवतस्य त्वौडुवकारिण औडुवावस्थायामनवस्थाने ऽपि संपूर्णत्वषाडवत्वावस्थयोः प्राप्ताल्पत्वापवादेन बहुत्वम् * बलिनौ भवतश्चात्र धैवतः सप्तमस्तथा इति मुनिवचनाद्विधीयत इत्यवगन्तव्यम् । अंशः पञ्चमः षाडवं द्वेष्टि । पञ्चमः स्वयमंशीभवन् रिलोपनिर्वर्त्य षाडवं न सहते, मध्यमग्रामे पञ्चमर्षभयोः संवादादिति भावः । षड्जनिमपा औडवितं द्विपन्ति, सनिमपा अंशा भवन्तो रिधलोपनिर्वर्त्यमौडुवितं न सहन्ते ; एक एवांशो गांधार औडुवितं सहत इत्यर्थः । अत्र निधयोः षड्जाद्यंशसंवादित्वाभावे ऽप्यवितानभ्युपगमस्तु • गांधारीरक्तगांधार्योः षड्जमध्यमपञ्चमाः । सप्तमश्चैव विज्ञेया एषु नौडुवितं भवेत् ॥ इति मुनिवचनादवगन्तव्यः । अतः षाडवादिजातिपु क्वचित्षाडव निषेधो Sशसंवादिलोपानभ्युपगमान्नियतः, • संवादिलोपात्सप्तैताः षाट्स्वर्येषु विवर्जिताः ' इति मुनिवचनोक्तत्वात् । औडुवादिजातिषु कदाचिदौडुवितस्य प्राप्तस्यापि निषेधः क्वचिदंशलोपात्क्वचिद्वचनादेवेति द्रष्टव्यम् । सगौ संगताविति । 31 Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy