SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २३६ संगीतरत्नाकरः [जातिअथ गांधारोदीच्यवा गांधारोदीच्यवायां तु द्वावंशौ षड्जमध्यमौ ।। ८८ ॥ रिलोपाषाडवं ज्ञेयं पूर्णत्वे ऽशेतराल्पता । अल्पा निधपगांधाराः षाडवत्वे प्रकीर्तिताः ॥ ८९ ॥ रिधयोः संगतिज्ञेया धैवतादिश्च मूर्च्छना । तालश्चच्चत्पुटो ज्ञेयः कलाः षोडश कीर्तिताः ॥ ९० ॥ विनियोगो ध्रुवागाने चतुर्थप्रेक्षणे मतः । पमगा एकः ; गमौ द्वौ ; एवमष्टौ लघवः । प्रणमामि देवमित्यक्षराणिप्रणाभ्यां मौ; शेषौ गमौ; मा इति मः; शेषौ निधौ; मिना पः। शेषो धः; दे इति पः; शेषौ मगौ ; वमिति गः ; शेषो मः (१०); एकादश्यां मध्ये ध एकः ; पधावेकः ; परी एकः ; रिंगावेकः ; मगावेकः ; रिगावेकः; सधसा एकः; स एकः; एवमष्टौ लघवः । कुमुदाधिवासीत्यक्षराणि-कुमुभ्यां धपौ; शेषो धः ; दा इति पः; शेषो रिः; धिना रिः; शेषो गः ; वा इति मः; शेषा गरिगसधसाः; सिना सः (११)। द्वादश्यां मध्ये निधावेकः ; सरी द्वौ ; मगमा एकः ; माश्चत्वारः ; एवमष्टौ लघवः । नमिति निः; शेषा इतरे (१२) । रजनिवधूमुखविलासलोचनं प्रविकसितकुमुददलफेनसंनिभम् । कामिजननयनहृदयाभिनन्दिनं प्रणमामि देवं कुमुदाधिवासिनम् ॥ इति षड्जमध्यमा ॥१०॥ (क०) गांधारोदीच्यवायां विति । पूर्णत्वे संपूर्णत्वदशायाम् , अंतराल्पता, अंशाभ्यां समाभ्यामितरेषां रिगपधनीनामल्पत्वम् ; षाडवत्वे Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy