SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः २१९ मन्द्रे धौ द्वौ ; प एकः ; मधावेकः ; ध एकः ; निधावेकः ; धनी एकः ; ध एकः; एवमष्टौ लघवः । कृतशोभमित्यक्षराणि-कृतशोभिर्धधपाः ; तच्छेषा मधधनिधाः ; भमिति धः ; तच्छेपौ निधौ (६) । सप्तम्यां मध्ये धौ द्वौ ; द्वौ नितारषड्जो द्विद्वौं ; निधावेकः ; पास्त्रयः ; एवमष्टौ लघवः । नगसूनुलक्ष्मीत्यक्षराणि- नगसूभिर्धधनयः ; तच्छेषाः सनिसाः ; नुना निः; तच्छेषो धः; लेन पः; तच्छेषः पः ; क्ष्मीति पः (७) । अष्टम्यां मध्ये रिगावेकः ; सास्त्रयः ; मन्द्रे निषादाश्चत्वारः ; एवमष्टौ लघवः । देहार्धमिश्रीत्यक्षराणि-दे, इति रिः; तच्छेषो गः ; हा, इति सः ; तच्छेषौ सौ; र्धमिभ्यां नी; तच्छेषो निः; श्रिणा निः (८)। नवम्यां मध्ये स एकः; रिगौ द्विद्वौं ; सनिसास्त्रयः ; धौ द्वौ ; एवमष्टौ लघवः । तशरीरमित्यक्षराणि-तशाभ्यां सरी; तच्छेषो गः; री, इति रिः; तच्छेषा गसनिसाः; रमिति धः; तच्छेषो धः (९)। दशम्यां मन्द्रे रिरेकः ; गरी एकः ; मगावेकः ; माः पञ्च ; एवमष्टौ लघवः । प्रणमामि भूतेत्यक्षराणिप्रणाभ्यां रिगौ ; तच्छेषो रिः; मा इति मः; तच्छेषौ गमौ; मिभूभ्यां मौ; तच्छेषो मः ; तेन मः (१०) । एकादश्यां मध्ये नी द्वौ ; धौ द्वौ ; प एकः ; रिगावेकः ; स एकः ; रिगावेकः ; एवमष्टौ लघवः । गीतोपहारेत्यक्षराणि --गी इति निः; तच्छेषो निः; तो, इति धः ; तच्छेषो धः ; पहाभ्यां परी; तच्छेषौ गसौ ; रेण रिः; तच्छेषो गः (११) । द्वादश्यां मध्ये पधसमधनयः षट् ; धौ द्वौ ; एवमष्टौ लघवः । परितुष्टमित्यक्षराणिपरितुभिः पधसाः; प्टमित्युपान्त्यः (१२) । तरुणामलेन्दुमणिभूषितामलशिरोज भुजगाधिपैककुण्डलविलासकृतशोभम् । नगसूनुलक्ष्मीदेहार्धमिश्रितशरीर प्रणमामि भूतगीतोपहारपरितुष्टम् ॥ इति धैवती ॥ ६ ॥ HIRTHERE Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy