________________
२२० संगीतरत्नाकरः
[जातिअथ नैषादी नैषाद्यां निरिगा अंशा अनंशावहुलाः स्मृताः ।। ७७ ॥ पाडवौडुवलङ्घयाः स्युः पूर्वावद्विनियोजनम् । चच्चत्पुटः षोडशात्र कला गादिश्च मूर्च्छना ॥ ७८ ॥
अस्यां नैपायां निषादो न्यासः । अंशा एवापन्यासाः । चोक्षसाधारितदेशीवेलावल्यो दृश्यन्ते । अस्याः प्रस्तारः
५. नैषादी १. नी नी नी नी सा धा नी नी
तं सु र वंदि त (क०) नैपाद्यामिति । अनंशाबहुला निरिगा अंशाः स्मृता इति योजना । अनंशाः समपधा अबहुला अल्पत्वयुक्ता येषु निरिगेप्वंशेषु ते इंशा बहुलाः स्मृताः । अन्यथा ऽनंशाः षड्जादयो बहुलाः स्मृता इति पदभेदेन भिन्नवाक्यत्वे 'पूर्णावस्थायां षड्जमध्यमपञ्चमधैवतानामल्पत्वं पाडवे षड्जमध्यमधैवतानामल्पत्वमौडुवे मध्यमधैवतयोरल्पत्वम्' इति मतङ्गवचनेन 'अनभ्यासस्त्वनंशेषु' इति स्ववचनेन च विरोधः स्यात् । पूर्वावद धैवत्यामिव पाडवौडुवलद्ध्याः स्युः, पलोपात्षाडवं सपलोपादौडुवमारोहिणौ सपौ लथ्यौ चेति पाडवौडवलद्ध्याः, विनियोजनं च षाड्जीवदिति । अन्यद्वयाख्यातचरम् ॥ -७७, ७८ ॥ ___ (सु०) नैषादी लक्षयति-नैपाद्यामिति । नेषाद्यां निषादर्षभगांधारा विकल्पेनांशाः । षड्जमध्यमपञ्चमधैवता बहुला: (?) । पञ्चमलोपात्षाडवम् ; षड्जपञ्चमलोपादौडुवितम् । षड्जपञ्चमौ लड्यौ । प्रथमे प्रेक्षणे नष्क्रामिकध्रुवायां विनियोगः । चञ्चत्पुटस्तालः । षोडश कलाः । गांधारादिमूर्च्छना ॥ -७७, ७८ ॥
Scanned by Gitarth Ganga Research Institute