SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २१६ संगीतरत्नाकरः [जातिश्रय धैवती स्तो धैवत्यां रिधावंशौ लङ्घयावारोहिणौ सपौ ॥ ७५ ।। पलोपात्पाडवं प्रोक्तमौडवं सपलोपतः। ऋषभादिमूर्च्छना स्यात्तालो मार्गश्च गीतयः ।। ७६ ।। विनियोगश्च षाड्जीवत्कला द्वादश कीर्तिताः । पमधनयश्चत्वारः ; निधावेकः ; पास्त्रयः ; एवमष्टौ लघवः । नमनन्तमित्यक्षराणि-नमनमिति पमधाः ; तच्छेषो निः; तमिति निः; तच्छेषा इतरे (४) । पञ्चम्यां मध्ये पौ द्वौ ; तार ऋषभाः षट् ; एवमष्टौ लघवः । प्रणमामि पुरुषेत्यक्षराणि-प्रणमा इति पपरयः ; तच्छेषो रिः ; मिपुरुषैश्चत्वार ऋषभाः (५) । षष्ठयां मन्द्रे म एकः ; मन्द्रनिमध्यगावेकः ; स एकः ; सधावेकः ; निषादाश्चत्वारः; एवमष्टौ लघवः । मुखपद्मलक्ष्मीत्यक्षराणिमुखाभ्यां मनी ; तच्छेषो गः ; पद्माभ्यां सौ ; तच्छेषौ धनी ; लेन निः; तच्छेषो निः; क्ष्मीति निः; (६)। सप्तम्यां तारे सास्त्रयः ; मध्ये म एकः; पाश्चत्वारः ; एवमष्टौ लघवः । हरमम्बिकापेत्यक्षराणि-हरममिति सास्त्रयः ; तच्छेषो मः ; बिकाभ्यां पौ ; तच्छेषः पः; पेति पः (७) । अष्टम्यां मध्ये धमधनयश्चत्वारः ; पाश्चत्वारः ; एवमष्टौ लघवः । तिमजेयमित्यक्षराणितिमजे इति धमधाः ; तच्छेषो निः; यमिति पः ; तच्छेषाः परे (८) । हरमूर्धजाननं महेशममरपतिबाहुस्तम्भनमनन्तम् । तं प्रणमामि पुरुषमुखपद्मलक्ष्मीहरमम्बिकापतिमजेयम् ॥ इति पञ्चमी ॥ ५ ॥ (क०) स्तो धैवत्यामिति । आरोहिणावारोहिवर्णगौ सपौ लथ्यौ लङ्घनीयौ ; पूर्णावस्थायामल्पतरौ कर्तव्यावित्यर्थः । एतेनावरोहे सपावल्पौ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy