________________
२१४
संगीतरत्नाकरः
क्रमाद्वेन निगाभ्यां च षाडवौडवता मता' । ऋषभो शस्त्वौडुवितं द्वेष्टयष्टौ च कला मताः ॥ ७४ ॥ मूर्च्छनाऽऽदि तु पूर्वावत्प्रेक्षणं तु तृतीयकम् ।
अस्यां पञ्चम्यां पञ्चमो न्यासः । ऋषभपञ्चमनिषादा अपन्यासाः । चोक्षपञ्चमदेश्यान्धाल्यो दृश्यन्ते । अस्याः प्रस्तार:
५ पञ्चमी
१.
पा धनि नी नी मा नी मा पा ह र मू ६ जा न
[जाति
लुप्ताभ्यामिति चाध्याहारः कार्यः । क्रमात्षाडवौडुवता, गेन षाडवं निगाभ्यामौडुवमिति क्रमात् षाडवौडुवयोर्भावः षाडवौडुवता । ऋषभो शस्त्वौवितं द्वेष्टति । अस्यामौडुवकारिणोर्निगयोऋषभे ऽंशे संवादित्वाभावे ऽपि,
'ऋषभश्चैव पञ्चम्यां कैशिक्यां चैव धैवतः । एवं हि द्वादशैते स्युर्वर्ज्याः पञ्चस्वरे सदा ॥
इति मुनिवचनबलादौडुवत्वं निषिध्यत इति मन्तव्यम् । मूर्च्छनाऽऽदि तु पूर्वादिति । पूर्वावन्मध्यमायामिवात्रापि मूच्छनर्षभादिः । आदिशब्देन चच्चत्पुटश्च तालो गृह्यते । अन्यदुक्तप्रायम् ॥ ७३–७४- ॥
(सु०) पञ्चमीं लक्षयति — रिपाविति । पञ्चम्यामृषभपञ्चमावंशौ ; षड्जगांधारमध्यमा अल्पाः ; ऋषभमध्यमयोः संगतिः ; पूर्णत्वे गांधारान्निषादपर्यन्तमारोहणम् ; गांधारलोपात्षाडवम् ; निषादगांधारलोपादौडुवितम् ; ऋषभे ऽंश औडुवितं नास्ति; अष्टौ कलाः । ऋषभादिर्मूच्र्च्छना । चञ्चत्पुटस्ताल: । ध्रुवायां तृतीयप्रेक्षणे विनियोगः ॥ ७३--७४- ॥
1 षाडवौडुविते मते.
Scanned by Gitarth Ganga Research Institute