________________
प्रकरणम् ७ ]
प्रथमः स्वरगताध्यायः
अथ पञ्चमी
रिपावंशौ तु पञ्चम्यां सगमाः स्वल्पका मताः । रिमयोः संगतिर्गच्छेत्पूर्णत्वे गान्निपादकम् ।। ७३ ।।
२१३
;
णमिति मः ; तच्छेषो मः (४) । पञ्चम्यां मन्द्रे नी द्वौ ; मध्ये री द्वौ ; मन्द्रे निः ; मध्ये रिरिपास्त्रयः ; एवमष्टौ लघवः । गौरीकरपेत्यक्षराणि-गौ, इति निः; तच्छेषो निः; री, इति रिः; तच्छेषो रिः ; करपैर्निरिरयः तच्छेषः पः (५) । षष्ठयां मन्द्रे निरेकः ; मध्ये मपावेकः; मौ द्वौ ; साश्चत्वारः ; एवमष्टौ लघवः । ल्लवाङ्गुलिस्वित्यक्षराणि -- ल्लवां इति निमौ; तच्छेषाः पममाः ; गुलिभ्यां सौ; तच्छेषः सः ; सुना सः (६) । सप्तम्यां तारे गः ; मध्ये निः; तारे सगौ; मध्ये धपावेकः ; म एकः ; धनी एक: ; तारे स एकः ; एवमष्टौ लघवः । तेजितमित्यक्षराणि-ते इति गः ; तच्छेषाः परे षट् स्वराः; जिना धः ; तच्छेषो निः; तमिति सः (७) । अष्टम्यां मध्ये प एकः; तारे स एकः ; पुनर्मध्ये प एकः ; निधपा एक: ; माश्चत्वारः; एवमष्टौ लघवः । सुकिरणमित्यक्षराणि – सुकिरैः पसपा: ; तच्छेषा निधपाः ; णमिति मः ; तच्छेषास्त्रयः ( ८ ) ।
पातु भवमूर्धजानन किरीटमणिदर्पणम् ।
गौरीकरपल्लवाङ्गुलि सुतेजितं सुकिरणम् ॥ इति मध्यमा ||४||
(क०) रिपावंशाविति । सगमाः स्वल्पका मता इत्यत्र समयोरषाडवौडुवकारित्वेनाप्राप्तावल्पत्ववचनं विधिरिति, गस्य षाडवौडुवकारित्वेन प्राप्तौ पुनर्वचनं परिसंख्येति च ' पञ्चम्यां तु विपर्ययः' इत्यादिग्रन्थव्याख्यानसमये पूर्वं प्रतिपादितम् । संपूर्णत्वदशायां गान्निषादकं गच्छेदिति ; गन्योः संगतिं कुर्यादित्यर्थः । एतेन षाडवत्वे गस्यौडुवत्वे निगयोश्च लोप्यत्वात्तत्र तयोः संगतिं न कुर्यादिति गम्यते । गेन निगाभ्यां चेत्यत्र लुप्तेन
Scanned by Gitarth Ganga Research Institute