________________
प्रकरणम् ७ ]
अथ मध्यमा
पञ्चांशा मध्यमायां स्युरगांधारनिषादका: ।। ७० ।। षड्जमध्यमबाहुल्यं गांधारो ऽल्पो ऽत्र पाडवम् । गलोपान्निगलोपेन त्वौडुवं स्यात्कलाऽष्टकम् ।। ७१ ।। ऋषभादिर्मूर्च्छना स्यात्तालश्चच्चत्पुटो मतः । विनियोगो धुवागाने द्वितीयप्रेक्षणे भवेत् ॥ ७२ ॥
प्रथमः स्वरगताध्यायः
अस्यां मध्यमायां मध्यमो न्यासः । अंशा एवापन्यासाः ।
चोक्षपाडवदेशयान्धाल्यो दृश्यन्ते । अस्याः मस्तारः
४. मध्यमा
१.
२.
मा मा मा मा पा धनि नी धप
पा
तु भ व मू
मा पम मा सा मा गा री री र्ध जा न न
२११
1
( क ० ) पञ्चांशा इति । मध्यमायामगांधार निषादकाः पञ्च सरिमपधा अंशा ग्रहाश्च स्युः । षड्जमध्यमबाहुल्ये प्राप्ते ऽपि पुनर्ग्रहणं तयोः पर्यायांशत्वे ऽपि वादिवद्बाहुल्यसिद्ध्यर्थम् । गांधारो ऽल्प इति पूर्णतायामिति मन्तव्यम् । अत्र षाडवमिति स्पष्टो ऽर्थः ॥ -७०–७२ ॥
( सु० ) मध्यमां लक्षयति- पश्चांशा इति । मध्यमायां षड्जर्षभमध्यमपञ्चमधैवता विकल्पेनांशाः । षड्जमध्यमौ बहुलौ । गांधारो ऽल्पः । गांधारलोपात्षाडवम् । निषादगांधारलोपा दौडुवितम् । अष्टौ कलाः । ऋषभादिर्मूर्च्छना । चच्चत्पुटस्ताल: । द्वितीयप्रेक्षणे धुत्रागाने विनियोगः ॥ - ७० - ७२॥
Scanned by Gitarth Ganga Research Institute