SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २१० संगीतरत्नाकर: [जाति द्वौ ; सौ द्वौ ; एवमष्टौ लघवः । रजतगिरिशिखरेत्यक्षराणि - रजतगिभिः क्रमेण रिगमपाः ; तच्छेषो धः; रिशिखरै रिगससा : ( ९ ) । दशम्यां मन्द्रे ऽष्टौ निषादा लघवः । मणिशकलशङ्खत्यक्षराणि - मणिशकलश मित्येतैः निषादा: ; तच्छेष उपान्त्य: ; खेनान्त्य : (१०) । सप्तमीवदेकादशी । वरयुवतिदन्तेत्यक्षराणि - वराभ्यां गौ; तच्छेषो मः ; युवतिभिः पपधाः, तच्छेषः प; दमिति मः; तच्छेषौ निधौ; तेन निः; तच्छेषः सः (११) । अष्टमीवद् द्वादशी । पङ्क्तिनिभमित्यक्षराणि – पेन निः; तच्छेषा धपनयः ; ङ्क्तिनिभ्यां मौ; तच्छेषौ परी; भमिति गः ; तच्छेषा गाः (१२) । त्रयोदश्यां मध्ये निनिपनिगमगसा अष्टौ लघवः । प्रणमामि प्रणयेत्यक्षराणि - चतुर्थो माक्षरशेष: (१३) । चतुर्दश्यां मध्ये गसौ द्वौ ; गास्त्रयः ; गमावेकः ; गौ द्वौ ; एवमष्टौ लघवः । रतिकलहरवनु, इत्यक्षराणि; मध्यमो रशेष: (१४) । पञ्चदश्यां मध्ये गपौ द्वौ ; मौ द्वौ ; निधावेकः ; निषादतारषड्जावेकः ; मध्ये निधावेकः ; पनी एकः ; एवमष्टौ लघवः । दमिति गः ; तच्छेषा इतरे (१५) । षोडश्यां मध्ये म एकः ; परिगा एकः ; गाः षट्; एवमष्टौ लघवः । शशिनमित्यक्षराणि - शशिभ्यां मपौ ; तच्छेषा रित्रयो गाश्च ; नमिति गः ; तच्छेषास्त्रयो गाः (१६) । एतं रजनिवधूमुखविभ्रमदं निशामय वरोरु तव मुखविलासवपुश्चारुममलमृदु किरणममृतभवम् । रजतगिरिशिखरमणिशकलशङ्खवर युवतिदन्तपङ्क्तिनिभं प्रणमामि प्रणयरतिकलहरवनुदं शशिनम् ॥ अत्र शशिप्रणामो ऽपि शशिनः शशिशेखर संबन्धाच्छंकरस्तुतावेव पर्यवस्यति ; अथ वा शशिनो ऽष्टमूर्तिधरमूर्तिभेदत्वात्तत्प्रणाम एवेति मन्तव्यम् ॥ इति गांधारी ॥ ३ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy