SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः २०९ इत्यनेन गांधारांशप्रस्तारगाने तेषामेकदेशेन प्रतीतिरूह्या । माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये गगसा लघवस्त्रयः ; मन्द्रे निरेकः ; मध्ये स एकः ; गास्त्रयः ; एवमष्टौ लघवः । एतमित्यक्षरे-एकारेण गः ; तच्छेषा गसनयः; तमित्यनेन सः ; तच्छेषा गास्त्रयः (१)। द्वितीयस्यां मध्ये ग एकः ; गमावेकः; पौ द्वौ ; धपावेकः ; म एकः ; निधावेकः ; निषादतारषड्जावेकः ; एवमष्टौ लघवः । रजनिवधूमुखेत्यक्षराणि-- रजाभ्यां गौ ; तच्छेषो मः ; निवधूभिः पपधाः ; तच्छेपौ पमौ ; मुना निः ; तच्छेषो धः । खेन निः; तच्छेषः सः (२) । तृतीयस्यां मध्ये निधावेकः ; पनी एकः ; म एकः ; मपरय एकः ; गाश्चत्वारः ; एवमष्टौ लघवः । विभ्रमदमित्यक्षराणि-विना निः; तच्छेषा धपनिमाः; श्रेण मः ; तच्छेषौ परी; मेन गः ; तच्छेषो गः ; दमिति गः ; तच्छेषो गः (३) । द्वितीयावच्चतुर्थी कला। निशामय वरोरु, इत्यक्षराणि-निशाभ्यां गौ; तच्छेषो मः ; मयवैः पपधाः ; तच्छेषः पः ; रो इति मः ; तच्छेषौ निधौ ; रुणा निः; तच्छेषः सः (४)। पञ्चम्यां तृतीयावत्प्रथमादयो लघवः षट् ; उपान्त्यान्त्यौ मध्यमषड्जौ । तव मुखविलासेत्यक्षराणि-तेन निः; तच्छेषो धः; वेन पः; तच्छेषो निः; मुखाभ्यां मौ; तच्छेषौ परी; विलाभ्यां गौ; तच्छेषो मः; सेन सः (५)। षष्ठयां मध्ये गसौ द्वौ ; गास्त्रयः ; गमावेकः ; गौ द्वौ ; एवमष्टौ लघवः । वपुश्चारुममलेत्यक्षराणि-वपुश्चारुभिर्गसगगाः; तच्छेषो गः; मेन गः; तच्छेषो मः; मलाभ्यां गौ (६)। चतुर्थीवत्सप्तमी । मृदुकिरणेत्यक्षराणिमृदुभ्यां गौ; तच्छेषो मः; किरणैः पपधाः ; तच्छेषा इतरे (७) । तृतीयावदष्टमी । ममृतभवमित्यक्षराणि- मेन निः; तच्छेषो धः ; मृणा पः; तच्छेषो निः; तभाभ्यां मौ; तच्छेषौ परी; वमिति गः; तच्छेषा इतरे (८)। नवम्यां मध्ये रिंगमास्त्रयो लघवः ; पधावेकः ; रिगौ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy