________________
२०६
संगीतरत्नाकरः
अथ गांधारी
पश्चांशा रिधवाः स्युर्गाधार्या संगतिः पुनः । न्यासांशाभ्यां तदन्येषां धैवतापमं व्रजेत् ।। ६७ ॥ रिलोपरिधलोपाभ्यां षाडवौडुविते क्रमात् । पञ्चमः षाडवद्वेषी निसमध्यमपञ्चमाः ॥ ६८ ॥ अंशा द्विषन्त्यौडुवितं कलाः पोडश कीर्तिताः । मूर्छना धैवतादिः स्यात्तालश्चच्चत्पुटो मतः ॥ ६९ ॥ विनियोगो ध्रुवागाने तृतीयप्रेक्षणे भवेत् ।
अत्रापि स्वरसंख्या प्रस्तारत एव द्रष्टव्या, अंशान्तरप्रस्तारेष्वभ्यूहनीया । इत्यार्षभी ॥ २ ॥
(क०) पञ्चांशा इति । अस्यां गांधार्यो रिधवाः पञ्च सगमपनयो इंशा ग्रहाश्च स्युः; संगतिः पुनः संगतिस्तु, न्यासांशाभ्यां न्यासेन गांधारेणांशेन गमपनिसेप्वन्यतमेन, तदन्येषां न्यासादुपात्तांशाच्चान्येषां पर्यायांशानंशरूपाणां च, भवतीति शेषः । धैवतादृषभं व्रजेदिति । पूर्णताऽवस्थायां कदाचिद्धैवतर्षभयोः संगतिः स्यादित्यर्थः । पञ्चमः षाडवद्वेषीत्यादिनैतदुक्तं भवति-यदा पञ्चमो ऽशो भवति तदा संपूर्णावस्थैवेति, निसमा यदा शास्तदा संपूर्णषाडवावस्थे द्वे एवेति च । एतेन गांधारांशत्व एवास्यास्तिस्रो ऽवस्था इति ज्ञायते । ‘पञ्चमः षाडवद्वेषी निसमध्यमपञ्चमाः; अंशा द्विषन्त्यौडुवितम्' इत्यस्योपपत्तिराचार्यवचनं च रक्तगांधार्यो सम्यगभिधास्यते ; तत एवावगन्तव्यम् । कलाः षोडश कीर्तिता इति चतुष्कलस्य चच्चत्पुटस्य दक्षिणमार्गे चतुरावृत्तिरुक्ता । मृर्छना धैवतादिः स्यादिति । अस्यां गांधार्या माध्यमग्रामिकत्वात्पौरवी मूर्च्छनेत्यर्थः ।
Scanned by Gitarth Ganga Research Institute