________________
२०७
प्रकरणम् ७] प्रथमः स्वरगताध्यायः
अस्यां गांधार्या गांधारो न्यासः । षड्जपञ्चमावपन्यासौ । गांधारपञ्चमदेशीवेलावल्यो दृश्यन्ते । अस्याः प्रस्तारः
३. गांधारी
१. गा गा सा नी सा गा गा गा
२. गा गम पा पा धप मा निध निस
र ज नि व धू मु ख ३. निध पनि मा मपरि गा गा गा गा
वि भ्र म दं। ४. गा गम पा पा धप मा निध निस
नि शा म य व रो रु
ततीयप्रेक्षणे ध्रवागान इति ध्रुवासामान्यनिर्देशात्प्रावेशिक्यादिषु यथोचित विनियोग इत्यर्थः ॥ ६७-६९- ॥
(सु०) गांधारी लक्षयति-पञ्चांशा इति । गांधार्या षड्जगांधारमध्यमपञ्चमनिषादा विकल्पेन पञ्चांशाः । न्यासांशस्वराभ्यां सहान्येषां संगतिः । धैवतादृषभपर्यन्तमारोहणं कर्तव्यम् । ऋषभलोपात्षाडवम् , ऋषभधैवतलोपादौडुवितम् । पञ्चमे ऽशे षाडवं नास्ति ; निषादषड्जपञ्चमेष्वंशेष्वौडुवितं नास्ति । षोडश कलाः। धैवतादिमूछना। चञ्चत्पुटस्तालः । ध्रुवागाने तृतीयप्रेक्षणे विनियोगः ॥ ६७-६९- ॥
(क०) षड्जपञ्चमावपन्यासाविति विकृतत्वविवक्षया। गांधारपञ्चमदेशीवेलावल्यो दृश्यन्त इति । गांधारपञ्चमो ग्रामरागः । दृश्यन्त
Scanned by Gitarth Ganga Research Institute