SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः २०५ तच्छेषा मगरयः ; धिना रिः (१) । द्वितीयस्यां मध्य ऋषभौ द्वौ ; निधावेकः ; पुनर्निधावेकः ; ग एकः ; रिमावेकः ; म एकः ; पनी एकः ; एवमष्टौ लघवः । कमनन्तममरेत्यक्षराणि-कमनै रिरिनयः ; तच्छेषा धनिधाः ; न्तमाभ्यां गरी; तच्छेषो मः ; मराभ्यां मपौ ; तच्छेषो निः (२)। तृतीयस्यां मध्ये मधनिधपपसगा अष्टौ लघवः ; मजरमक्षयेत्यक्षराणि-मजरमैर्मधनिधाः; तच्छेषौ पौ; क्षयाभ्यां सगौ (३) । चतुर्थ्यो मध्ये निरेकः ; धनी एकः ; रिरेकः ; गरी एकः ; समन्द्रधावेकः ; मध्ये गरी एकः ; ऋषभौ द्वौ ; एवमष्टौ लघवः । मजेयमित्यक्षराणि-मजे इत्याभ्यां निधौ ; तच्छेषा अष्टौ पराः; यमित्यनेनोपान्त्यो रिः ; तच्छेषो रिः (४) । पञ्चम्यां मध्ये रिरेकः ; म एकः ; गरी एकः ; समन्द्रधावेकः ; मध्ये सावेकः ; रिसावेकः ; रिगावेकः ; मावेकः; एवमष्टौ लघवः । प्रणमामि दिव्येत्यक्षराणि—प्रणाभ्यां रिमौ ; तच्छेषौ गरी; दीपेण मेन सः ; तच्छेषा धससरिसाः ; मिना रिः ; तच्छेषो गः ; दिव्याभ्यां मौ (५)। षष्ठयां मध्ये निधावेकः ; प एकः ; ऋषभौ द्वौ ; रिपावेकः ; गरी एकः ; समन्द्रधावेकः ; मध्ये स एकः ; एवमष्टौ लघवः । मणिदर्पणामेत्यक्षराणि-मेन निः; तच्छेषो धः ; णिदाभ्यां परी ; तच्छेषो रिः ; र्पण रिः ; तच्छेषः पः ; दीपेण णेन गः ; तच्छेषा रिसधाः ; मेन सः (६) । सप्तम्यां रिसौ द्विद्वौं ; रिगौ द्विद्वौं ; मध्यमास्त्रयः ; गरी एकः ; एवमष्टौ लघवः । लनिकेतमित्यक्षराणि-लेन रिः ; तच्छेषः सः ; निना रिः ; तच्छेषः सः ; के इत्यनेन रिः; तच्छेषा गरिगममाः ; तमित्यनेन मः ; तच्छेषौ गरी (७) । अष्टम्यां मध्ये पनिरयस्त्रयः ; म एकः ; गरी एक ; समन्द्रधावेकः ; मध्ये गरी द्विद्वौं ; एवमष्टौ लघवः । भवममेयमित्यक्षराणि-भवममे, इत्यतैः पनिरिमाः; तच्छेषा गरिसधगरयः ; यमित्यनेन गः ; तच्छेषो रिः (८)। गुणलोचनादिकमनन्तममरमजरमक्षयमजेयम् । प्रणमामि दिव्यमणिदर्पणामलनिकेतं भवममेयम् ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy